This page has been fully proofread twice.

निष्ठ्यूतनेत्रयुगलश्च गुदे च नाभौ
गात्रा[^१]परे श्वयथुमान् भवति द्विपोऽयम् ।
नाश्नाति नैव रमते न च वेत्ति संज्ञां
राज्यच्युतो नृप इवाधिमुपैति कामम् ॥ ४ ॥
 
अण्डं तैजसमण्डजाश्च करिणो जन्मप्रभृत्यौष्ण्यतः
सन्तप्ताः शिशिराम्बुसेचनरजःपङ्कादिभिर्हर्षिताः ।
तस्मादङ्गप ! तोयमेव करिणां प्राणास्ततः कामत-
स्तोयेनोपचरेद् गजान् भवति तद्धातुप्रसादो ह्यतः ॥ ५ ॥
 
आनीतान् वनतो गजान् हिमजलैः सिञ्चेत् तथा पायये-
दाकर्णं त्ववगाहयेदुषसि तद्ग्लान्यादिशान्त्यै जले ।
एवं चाथ दिनावसानसमये स्वैरं तथाळानयेत्
पश्चात् [^२]सेचनलेपनादि शतधौताज्येन कुर्यादपि ॥ ६ ॥
 
कृतावगाहस्य मतङ्गजस्य
शाल्योदनं मुद्गरसाज्यमिश्रम् ।
पानं च दद्यात् सहशर्करं च
पुण्ड्रेक्षुकाण्डानि मनोहराणि ॥ ७ ॥
 
शय्या तोयावलोकश्चलनमनुगुणं भेषजं धूलिमृष्टिः
शालास्तम्भप्रवेशो घृतगुळसहितं भोजनं पूलदानम् ।
निर्वाणं तोयपानं तिलजपदयुतं भोजनं चापराह्णे
भैषज्यं चाथ संवेशनमिति दिनचर्या गजानां क्रमेण ॥ ८ ॥
 
पद्माद्युत्पलनालकन्दकदलीशालूकशृङ्गाटकान्
दूर्वोदुम्बरसल्लकीक्षुनळदन्यग्रोधवेण्वादिकान् ।
 
[^१] 'त्रान्तरे' ग-पाठः ।
 
[^२] 'क्षालन' ग-पाठः ।