This page has been fully proofread once and needs a second look.

क्रोशप्रायवितानदीर्घमहिता वारी निखातैर्दृढै-
र्वृक्षाद्यैः परितो वृतिं च परिखां कृत्वा बहिर्दुस्तराम् ।
द्वारस्योभयतः प्रकल्पितवृतिद्वन्द्वान्तरस्थां क्रमाद्
विस्तीर्णां च बहिर्मुखां वितनुयाद्वीथीं च वेण्वादिभिः ॥ २ ॥
 
उद्धृत्योपरि सन्निबध्य च कवाटं द्वारि वार्यन्तरे
दारुस्तम्भमितस्ततश्च सुदृढं कृत्वा सधारं बहुम् ।
इक्ष्वाद्यत्र विनिक्षिपेदथ गजान् संवार्य भेर्यादित-
स्त्रस्तानत्र निवेश्य चार्गलशिखापाशांश्च भिन्द्याद् द्रुतम् ॥ ३ ॥
 
कक्ष्याबन्धककुन्तवेणुसृणिपाशाद्यैर्युता हस्तिपा-
स्तस्मिन् द्वित्रदिनं प्रतीक्ष्य पुनरभ्येत्याशु वार्यन्तरम् ।
स्तम्भोपान्तगता गजानपि गृहीत्वोपायवन्तो दृढं
सम्बध्यात्र गुणान्वितानथ बहिर्यूथं च विद्रावयेत् ॥ ४ ॥
 
कक्ष्याभागे च कण्ठे मृदुतरदृढपाशैर्गजं चारु तूर्णं
बध्नीयाच्चापराङ्के निगळनमपि तत्पादयोरप्यमीषु ।
बध्वा पाशानथात्यायतसुदृढतरानग्रतो हस्तिपेन्द्रै-
राकृष्याकृष्य मन्दं गमयतु शिथिलीकृत्य पाश्चात्यपाशम् ॥ ५ ॥
 
स्तम्भात् स्तम्भान्तरं त्वेवं यापयित्वा शनैर्गजान् ।
शालां प्रवेशयेदन्यैराप्तैर्दन्तिवरैः सह ॥ ६ ॥
 
आप्ताश्चर्मपटैर्निबद्धजठराः कृत्वा वशाः पञ्चषा-
स्तच्चर्मान्तरशायिनो गजभटाः पाशादिभिः संयुताः ।
आराद्यूथमथाङ्गुलिप्रहरणैः प्रापय्य ताः पञ्चषान्
बध्नीयुश्च गजान् जवादिति वशालोभो वशालोभनात् ॥ ७ ॥