This page has been fully proofread twice.

क्षीयन्ते मदवारणस्य नितरां दानस्रुतेर्धातवो
जायन्ते प्रबलानि रोगनिकराण्याश्वेव धातुक्षयात् ।
अन्याब्देषु मदोद्गमं न [^१]भजते तेषां क्षयात् पूर्वतः
शान्तिं तस्य मदस्य धातुपरतो मासत्रयात् कारयेत् ॥ १९ ॥
 
सहामृताशिग्रुबलाद्विमूर्वाकापित्थसतच्छदचन्दनानाम् ।
कदम्बगुञ्जामधुकाश्वगन्धाजीवन्तिकाशाल्मलिसूरणानाम् ॥ २० ॥
 
वृश्चीरसेव्येक्षुरकुक्कुटाण्ड-
गुञ्जाश्वगन्धागुरुगोक्षुराणाम् ।
केरीपयःक्षौद्रयुतो गजानां
पिण्डः प्रदेयो मदसम्भवेऽयम् ॥ २१ ॥
 
कोरण्डमल्लिकानिम्बतिल्वमूलैः ससैन्धवैः ।
सेङ्गुदैर्मधुना पिण्डो देयो रोषाविवर्धनः ॥ २२ ॥
 
मातुलुङ्गसुवहासहाकणासप्तपर्णविजयेङ्गुदीमधु ।
दुग्धपिष्टमिदमङ्गलेपितं मत्तवारणवरं वशं नयेत् ॥ २३ ॥
 
इति मातङ्गलीलायां
 
मदभेदाधिकारीरो नवमः पटलः ।
 
अथ दशमः पटलः ।
 
वारीकर्मवशाविलोभनविधिभ्यां चानुगत्या तथै-
वापातेन ततोऽवपातत इतीहेभग्रहः पञ्चधा ।
निन्द्यास्ते तु यथोत्तरं किल गजा नश्यन्ति यस्मात्ततो
वर्ज्यावन्त्यभवावुभावपि विशेषादेतयोश्चान्तिमः ॥ १॥
 
[^१] 'सहते' ग-पाठः ।