2026-01-17 14:11:57 by akprasad
This page has been fully proofread twice.
<page>
<verse lang="sa">घननखतलसन्धिः क्षिप्ररोहित्रणौघो
मृदुमृदुयवसाशी सञ्चलद्दन्तपङ्क्तिः ।
चपलगतिरजस्रं वर्षघर्षी प्रहर्षी
प्रहरणमृदुकोऽसावष्टमे मज्जनाख्यः ॥ ९ ॥
</verse>
<verse lang="sa">शुक्लेक्षणः प्लवति धेनुममुक्तशुक्लः
स्निग्धच्छविः प्रततदन्तचयः पृथूराः ।
यो रन्ध्रसन्धिषु घनः सुदृढप्रहारी
दन्तारुणं नवसमाप्रभवं वदन्ति ॥ १० ॥
</verse>
<verse lang="sa">सञ्जातशुक्लः प्लवने स्थिराङ्गः प्रहृष्टमेढ्रः स्थिरजातदन्तः ।
तेजोबलाढ्यो दशमे सुखादी यूथप्रहर्षी च स एव विक्कः ॥ ११ ॥
</verse>
<verse lang="sa">उत्साही स्फुटगात्रसन्धिसुभगो गर्भप्रदो दुःखभाक्
सप्रोहादिवलिर्घनप्रहरणः पीताभदन्तच्छविः ।
दुर्गस्थानरतः सुवृत्तजघनावस्कारकर्णाञ्चलः
पोताख्यः स्मरवेगविक्रमबली यातो द्वितीयां दशाम् ॥ १२ ॥
</verse>
<verse lang="sa">तत्तन्मानविभक्तकर्णरसनोत्सङ्गादिरुद्यन्मद-
घ्राणः सर्वगुणान्वितो दृढरणः सुस्निग्धरोमच्छविः।
क्षीबाक्षः प्रियदर्शनोऽक्ष[^<ref>१]</ref>विलसद्वृद्धिः सुधीः कोपनो
हन्ता धातुसमः स एव जवनो यातस्तृतीयां दशाम् ॥ १३ ॥
</verse>
<verse lang="sa">सन्दानादिषु जातसुस्थिरवलिर्गृह्णाति युक्तं मदं
निद्राद्विट् प्रतिदन्तिवैरिमनसा भीतोऽनले धूपनात् ।
गर्जन्नुद्धतगात्ररोमनिचयो युद्धप्रयोगप्रियः
कल्याणो ह्ययमेव वारणयुवा प्राप्तचतुर्थीं दशाम् ॥ १४ ॥
[^</verse>
<footnote mark="१] '." lang="sa">'तिवि'' ख. पाठः ।</footnote>
</page>
<verse lang="sa">घननखतलसन्धिः क्षिप्ररोहित्रणौघो
मृदुमृदुयवसाशी सञ्चलद्दन्तपङ्क्तिः ।
चपलगतिरजस्रं वर्षघर्षी प्रहर्षी
प्रहरणमृदुकोऽसावष्टमे मज्जनाख्यः ॥ ९ ॥
<verse lang="sa">शुक्लेक्षणः प्लवति धेनुममुक्तशुक्लः
स्निग्धच्छविः प्रततदन्तचयः पृथूराः ।
यो रन्ध्रसन्धिषु घनः सुदृढप्रहारी
दन्तारुणं नवसमाप्रभवं वदन्ति ॥ १० ॥
<verse lang="sa">सञ्जातशुक्लः प्लवने स्थिराङ्गः प्रहृष्टमेढ्रः स्थिरजातदन्तः ।
तेजोबलाढ्यो दशमे सुखादी यूथप्रहर्षी च स एव विक्कः ॥ ११ ॥
<verse lang="sa">उत्साही स्फुटगात्रसन्धिसुभगो गर्भप्रदो दुःखभाक्
सप्रोहादिवलिर्घनप्रहरणः पीताभदन्तच्छविः ।
दुर्गस्थानरतः सुवृत्तजघनावस्कारकर्णाञ्चलः
पोताख्यः स्मरवेगविक्रमबली यातो द्वितीयां दशाम् ॥ १२ ॥
<verse lang="sa">तत्तन्मानविभक्तकर्णरसनोत्सङ्गादिरुद्यन्मद-
घ्राणः सर्वगुणान्वितो दृढरणः सुस्निग्धरोमच्छविः।
क्षीबाक्षः प्रियदर्शनोऽक्ष
हन्ता धातुसमः स एव जवनो यातस्तृतीयां दशाम् ॥ १३ ॥
<verse lang="sa">सन्दानादिषु जातसुस्थिरवलिर्गृह्णाति युक्तं मदं
निद्राद्विट् प्रतिदन्तिवैरिमनसा भीतोऽनले धूपनात् ।
गर्जन्नुद्धतगात्ररोमनिचयो युद्धप्रयोगप्रियः
कल्याणो ह्ययमेव वारणयुवा प्राप्तचतुर्थीं दशाम् ॥ १४ ॥
[^
<footnote mark="१
</page>