This page has been fully proofread once and needs a second look.

स्फुटनखविदुसन्धिश्रोत्रदन्तप्रवेष्ट
च्छविरुरसि सबिन्दुः कर्ण[‍^१]पिञ्छूषयोश्च ।
श्रवसि शिरसि केश्युन्नम्रशीर्षस्तृणादी
दृढतररदपङ्क्तिश्चोपसर्पस्तृतीये ॥ ४ ॥
 
[‍^२]विलागनिष्कोशविलोहितः पयो-
द्विट् प्रोहसन्दानघनस्तृणप्रियः ।
कृष्णान्ततालुः पृथुलश्चतुष्टये
मनाक् प्ररोहद्दशनो हि बर्बरः ॥ ५ ॥
 
काष्ठत्वक्तनुसेवनस्तनुकचः पङ्काम्बुपांसुप्रियः
स्वल्पं हृष्यति कोपमेति च सुखं दुःखं यतं बुध्यते ।
शब्दादीनपि वेत्ति यन्तृवशगो ह्युत्तानवित् प्रोल्लस-
द्धाटावग्रहदन्त एष कलभः प्राप्तः समां पञ्चमीम् ॥ ६ ॥
 
पिञ्छूषकर्णकटसृक्कविलागनेत्र-
कूटाग्रकर्णयुगलप्रतिमानदेशे ।
यः सान्द्रबिन्दुसुभगो वलिहीनवर्ष्मा
नैकारिकं तमिह षट्सममामनन्ति ॥ ७ ॥
 
घननखतलसन्धिप्रोहसन्दानचिक्का-
पलिकरनखशीर्षो दन्तखादी सकण्डूः ।
स्फुटचरणजवावस्कारवान् सप्तवर्षः
शिशुरिति कथितोऽसौ स्निग्धदोःपुष्कराग्रः ॥ ८ ॥
 
[‍^१] 'पिन्छूषा कर्णपाली स्याद्' इति षष्ठे पटले वक्ष्यते ।
 
[‍^२] विलागादिपदानामर्थः षष्ठे पटले स्पष्टः । 'मध्येमुखं तु वाहित्थं पिलाटौ तस्य पार्श्वयोः' इति विलागशब्दार्थे पिलाटशब्द एव वैजयन्त्यां पठ्यते ।