This page has been fully proofread twice.

<page>
<verse lang="sa">
त्रीणि पञ्च च सप्ताष्टौ लिङ्गान्येतानि यस्य वै ।
आयुः स लभते तावद्दीर्घमित्यस्य मे मतिः ॥ ५ ॥
 
</verse>
<verse lang="sa">
चतुर्थी मृगजात्यस्य मन्दजात्यस्य चाष्टमी ।
द्वादशी भद्रजात्यस्य परमायुरिहोच्यते ॥ ६ ॥
 
</verse>
<trailer lang="sa">
इति मातङ्गलीलायाम्

आयुर्लक्षणाधिकारश्चतुर्थः पटलः ।
 
</trailer>
<heading lang="sa">
अथ पञ्चमः पटलः ।
 
</heading>
<verse n="5.1" lang="sa">
आ द्वादशाब्दाद् वयसा जघन्यो
मध्यश्चतुर्विंशतिवत्सरात् प्राक् ।
आ षष्टिसंवत्सरतः पुरायं
मातङ्गवर्यो वयसोत्तमाख्यः ॥ १ ॥
 
</verse>
<verse lang="sa">
श्लक्ष्णः सुताम्रो मृदुगात्ररोमा
निद्रालुरङ्कुरितहस्तलक्ष्यः ।
अव्यक्तरूपाङ्गयुतः स्तनार्थी
बालाह्वयोऽयं प्रथमे तु वर्षे ॥ २ ॥
 
</verse>
<verse lang="sa">
किञ्चित्सान्द्रनखोऽतिरागरसनोष्ठादिः पयोऽल्पं पिबन्
किञ्चिद्वल्लितृणा[‍^<ref>]</ref>दि खादितुमना गात्रान्तरे लोहितः ।
द्राग् धावत्यनिमित्तमेव मुदितः प्रायः सितामीलितो
नम्राक्षो नयनप्रमोदकृदयं वर्षद्वये पुच्चुकः ॥ ३ ॥
 
[‍^
</verse>
<footnote mark="[
] '." lang="sa">&apos;णानि खा'&apos; ख. पाठः ।</footnote>
</page>