2026-01-17 12:44:38 by akprasad
This page has been fully proofread twice.
<page>
<verse lang="sa">गुणग्रामसमग्राश्चेद्धीनाधिकनखा गजाः ।
दोषानेव प्रकुर्वन्ति विपरीताश्च [^१]शोभनम् ॥ १७ ॥
</verse>
<trailer lang="sa">इति मातङ्गलीलायां
शुभलक्षणाधिकारो द्वितीयः पटलः ।
</trailer>
<heading lang="sa">अथ तृतीयः पटलः ।
</heading>
<verse n="3.1" lang="sa">हीनाधिक्यनखाङ्गदृश्यवृषणो ह्रस्वाङ्गुलिर्वामनो
मण्डूकोदरकुब्जनीलशबलश्यावाभतालुस्तथा ।
स्थूलश्चातितनुर्जलूकसदृशश्चातुल्यपार्श्वद्वयो
रूक्षो निर्मदनीचपुष्करकरः पूज्यो न चायं गजः ॥ १ ॥
</verse>
<verse lang="sa">राजिग्रन्थियुतातिरूक्षशबलस्थूले विषाणे किला-
स्यस्निग्धासमशुभ्रबिन्दुमदतिह्रस्वः सिराभिस्ततः ।
मेढ्रो यस्य कृशोऽतिवक्रविपुलव्याविद्धसग्रन्थिक-
ह्रस्वो वालधिरल्पपेचककलापृष्ठः स निन्द्यो गजः ॥ २ ॥
</verse>
<verse lang="sa">लक्ष्यमुष्कस्तु मातङ्गो यत्र तिष्ठति पार्थिव !।
हन्यते तत्र नृपतिः सुतेन सुहृदाथ[^२] वा ॥ ३ ॥
</verse>
<verse lang="sa">कर्णहीनो दक्षिणतश्चातुर्वर्ण्यविनाशनः ।
वामतः शिल्पिनो हन्याद् रोगार्तोऽपि भवेन्नृपः ॥ ४ ॥
</verse>
<verse lang="sa">त्वग्दन्ततालुनखरादिषु पुष्पितो य-
स्त्याज्योऽत्र तद्दहनलेखनकर्म यद्वा ।
तच्छान्तिकर्म सकलं प्रतिसारणं च
तच्छेदनं च मतिमान् विधिवत् प्रकुर्यात् ॥ ५ ॥
[^</verse>
<footnote mark="१] '." lang="sa">'नाः'' ग-पाठः ।
[^</footnote>
<footnote mark="२] '." lang="sa">'सह'' ग-पाठः ।</footnote>
</page>
<verse lang="sa">गुणग्रामसमग्राश्चेद्धीनाधिकनखा गजाः ।
दोषानेव प्रकुर्वन्ति विपरीताश्च [^१]शोभनम् ॥ १७ ॥
<trailer lang="sa">इति मातङ्गलीलायां
शुभलक्षणाधिकारो द्वितीयः पटलः ।
<heading lang="sa">अथ तृतीयः पटलः ।
<verse n="3.1" lang="sa">हीनाधिक्यनखाङ्गदृश्यवृषणो ह्रस्वाङ्गुलिर्वामनो
मण्डूकोदरकुब्जनीलशबलश्यावाभतालुस्तथा ।
स्थूलश्चातितनुर्जलूकसदृशश्चातुल्यपार्श्वद्वयो
रूक्षो निर्मदनीचपुष्करकरः पूज्यो न चायं गजः ॥ १ ॥
<verse lang="sa">राजिग्रन्थियुतातिरूक्षशबलस्थूले विषाणे किला-
स्यस्निग्धासमशुभ्रबिन्दुमदतिह्रस्वः सिराभिस्ततः ।
मेढ्रो यस्य कृशोऽतिवक्रविपुलव्याविद्धसग्रन्थिक-
ह्रस्वो वालधिरल्पपेचककलापृष्ठः स निन्द्यो गजः ॥ २ ॥
<verse lang="sa">लक्ष्यमुष्कस्तु मातङ्गो यत्र तिष्ठति पार्थिव !।
हन्यते तत्र नृपतिः सुतेन सुहृदाथ[^२] वा ॥ ३ ॥
<verse lang="sa">कर्णहीनो दक्षिणतश्चातुर्वर्ण्यविनाशनः ।
वामतः शिल्पिनो हन्याद् रोगार्तोऽपि भवेन्नृपः ॥ ४ ॥
<verse lang="sa">त्वग्दन्ततालुनखरादिषु पुष्पितो य-
स्त्याज्योऽत्र तद्दहनलेखनकर्म यद्वा ।
तच्छान्तिकर्म सकलं प्रतिसारणं च
तच्छेदनं च मतिमान् विधिवत् प्रकुर्यात् ॥ ५ ॥
[^
<footnote mark="१
[^
<footnote mark="२
</page>