2026-01-17 12:43:36 by akprasad
This page has been fully proofread twice.
<page>
<verse lang="sa">विंशत्या नखसङ्ख्ययाञ्चितपदः स्फारोन्नतिः कुम्भयो-
रच्छिद्राञ्चलरक्तकर्णयुगलः सुश्लक्ष्णकक्षः करी ।
सव्याभ्युन्नतमाक्षिकद्युतिरदः सम्पूर्णकुक्षिः क्रम-
स्थूलर्ज्वायतचारुवालधिकरः पूगीफलश्यामलः ॥ ३ ॥
</verse>
<verse lang="sa">स्निग्धश्यामतनुश्च खड्गसदृशच्छायोऽथवा स्वस्तिक-
श्रीवत्सारिदराब्जलाञ्छनलसद्बिन्दुप्रकाशारुणः ।
क्रोडोद्यज्जघनस्थलोऽथ दृढकुक्षिस्रस्तसत्पिण्डिको
विस्तीर्णाधिकमांसलोन्नतक[^१]लाभागो नृपार्हो गजः ॥ ४ ॥
</verse>
<verse lang="sa">बृहदायतवृत्तकन्धराः सजलाम्भोदुनिनादबृंहिताः।
कलविङ्कमधुप्रभेक्षणास्त्रिवलिस्कन्धकरा गजाः शुभाः ॥ ५ ॥
</verse>
<verse lang="sa">सुस्निग्धतारनयनारुणपुष्कराश्च
चूतप्रवालरुचिकोमलकोशदण्डाः ।
रक्तारविन्दरुचिराः कलकण्ठनादा-
स्त्वेते गजाः शुभकराः खलु पार्थिवानाम् ॥ ६ ॥
</verse>
<verse lang="sa">तुङ्गदक्षिणविषाणकोटयो विन्दुचित्रितमहाकराननाः ।
गूढसन्धिदृढगात्रपश्चिमाः पार्थिवेन्द्र ! तव वाहनोचिताः ॥ ७ ॥
</verse>
<verse lang="sa">चापोन्नतायतनिगूढसुवंशपृष्ठाः
कान्ताघनस्तनसमानसरोमकुम्भाः ।
विस्तीर्णकर्णहनुनाभिललाटगुह्या-
स्ताम्रोष्ठतालुरदनाः करिणो नृपार्हाः ॥ ८ ॥
[^</verse>
<footnote mark="१] "." lang="sa">"स्नायुभिश्च प्रतिच्छन्नान् सन्तताश्च जरायुणा । श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः ॥ धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति । देहोष्मणाभिपकश्च सा कलेल्यभिधीयते"" ॥ इति भावप्रकाशः ।</footnote>
</page>
<verse lang="sa">विंशत्या नखसङ्ख्ययाञ्चितपदः स्फारोन्नतिः कुम्भयो-
रच्छिद्राञ्चलरक्तकर्णयुगलः सुश्लक्ष्णकक्षः करी ।
सव्याभ्युन्नतमाक्षिकद्युतिरदः सम्पूर्णकुक्षिः क्रम-
स्थूलर्ज्वायतचारुवालधिकरः पूगीफलश्यामलः ॥ ३ ॥
<verse lang="sa">स्निग्धश्यामतनुश्च खड्गसदृशच्छायोऽथवा स्वस्तिक-
श्रीवत्सारिदराब्जलाञ्छनलसद्बिन्दुप्रकाशारुणः ।
क्रोडोद्यज्जघनस्थलोऽथ दृढकुक्षिस्रस्तसत्पिण्डिको
विस्तीर्णाधिकमांसलोन्नतक[^१]लाभागो नृपार्हो गजः ॥ ४ ॥
<verse lang="sa">बृहदायतवृत्तकन्धराः सजलाम्भोदुनिनादबृंहिताः।
कलविङ्कमधुप्रभेक्षणास्त्रिवलिस्कन्धकरा गजाः शुभाः ॥ ५ ॥
<verse lang="sa">सुस्निग्धतारनयनारुणपुष्कराश्च
चूतप्रवालरुचिकोमलकोशदण्डाः ।
रक्तारविन्दरुचिराः कलकण्ठनादा-
स्त्वेते गजाः शुभकराः खलु पार्थिवानाम् ॥ ६ ॥
<verse lang="sa">तुङ्गदक्षिणविषाणकोटयो विन्दुचित्रितमहाकराननाः ।
गूढसन्धिदृढगात्रपश्चिमाः पार्थिवेन्द्र ! तव वाहनोचिताः ॥ ७ ॥
<verse lang="sa">चापोन्नतायतनिगूढसुवंशपृष्ठाः
कान्ताघनस्तनसमानसरोमकुम्भाः ।
विस्तीर्णकर्णहनुनाभिललाटगुह्या-
स्ताम्रोष्ठतालुरदनाः करिणो नृपार्हाः ॥ ८ ॥
[^
<footnote mark="१
</page>