2023-08-09 15:29:34 by Bharadwajraki
This page has been fully proofread twice.
विस्मृत्य कुलशीलानि, विसृज्य निश्शेषमपत्रपाम्, अवरोप्य निषङ्गं, आवेशयन्तः पृष्ठतो बुद्धिम्, अवमुच्य जयायुधानि, आददानाः भिक्षाकपालानि पाणिभिः, आसर्गादाचमहाप्रळयादध्वरहविर्भिरेव द्विजन्मनामविश्रान्तपरिपुष्टतयेव, प्राप्ते समरे सायुधाश्च, सवाहनाश्च, सैकता इव सेतवः, सर्वतोऽपि विजघटिरे विबुधभटाः ।
[commentary]
परिहारस्तु तत्तदीयशब्दवैजात्यविषयकश्रावणप्रत्यक्षरहिता इत्यर्थाश्रयणेन ज्ञेयः । जानन्तोऽपि ज्ञानाश्रया अपि जडाः ज्ञानानाश्रया इति विरोधः, तत्परिहारस्तु प्राणित्वप्रयुक्तयत्किञ्चिज्ज्ञानाश्रया अपि परिचितसन्निहिततत्तद्विषयकविशेषज्ञानरहिता इत्यर्थाश्रयणेन बोध्यः । दुर्यशसा अकीर्त्या, परिगृहीता इव, भाग्यस्य, विपर्ययः व्यत्ययः । एवं च अभाग्येनेत्यर्थः । परिष्वक्तास्संसक्ता इव । 'ष्वञ्ज परिष्वङ्गे' इति धातोः कर्मणि क्तः । कुलं कश्यपस्य ब्रह्मणस्सन्ततिं तच्च, शीलानि प्राक्तनासुरविजयचातुर्याणि च, विस्मृत्य, अपर्यालोच्य, निश्शेषं निरवशेषं, अपत्रपां लज्जां, विसृज्य, निषङ्गं इषुधिं, अवरोप्य उज्झित्वा । पृष्ठतः पृष्ठभागे । सार्वविभक्तिकस्तसिः । बुद्धिं, आवेशयन्तः विनिवेशयन्त इत्यर्थः । पलायनेच्छयेति यावत् । जयसम्पादकानि आयुधानि प्रहरणानि । शाकपार्थिवादित्वात्समासः । अवमुच्य त्यक्त्वा, भिक्षार्थं, कपालानि मृतास्थिपात्राणि । 'स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च' इत्यमरः । पाणिभिः आददानाः स्वीकुर्वाणाः आ च सर्गात्सृष्टिसमयमारभ्येत्यर्थ:थः । आ च महाप्रळयात् महाप्रळयमवधीकृत्येत्यर्थः । द्विजन्मनामध्वरेषु यागेषु, यानि हवींषि, तैरेव, अविश्रान्तं सन्ततं, परिपुष्टानां भावः परिपुष्टता, तया स्थूलतयेवेत्यर्थः । सैकताः सिकतामयाः, सेतव इव सर्वतः परितोऽपि, विजघटिरे चस्खलुः । परश्शतभटसाध्ये कार्ये बहवो भयद्रुताश्चेदवशिष्टा भटाः उपायतः स्खलनमन्तरा किं करिष्यन्तीति भावः । अग्न्यादिदिक्पतयोऽपि भीताः सन्तो दिगन्तान् प्रति [^१]दघाधाविर इत्याह ॥ धावदिति ॥ धावन्तः
पलायमानाः दैवतान्येव, योघाःधाः भटाः, तेषां यूथानि सङ्घाः, तेषां याः
[^१] 'धावु - गतिशुद्ध्योः' -- 'स्वरितेत् धावति-धावते-दधाव-दधावे’ इत्यभियुक्तोक्तेः 'दधाविरे' -- इति प्रयुक्तम् ॥ 'अथोष्मन्ता आत्मनेपदिनः' पूर्वम्पठितोऽयम् 'अव' धातोः परत्रपठितः भौवादिकः ॥ 'सृ गतौ' इत्यस्मात् क्राद्यन्तर्गतात्भौवादिकात् शीघ्रगतिविवक्षायां 'पाघ्राध्मा --' (पा. सू. ७.३.७८) इत्यादिना शित्येव 'धौ' -- आदेशः, न तु लिटि, नापि आत्मनेपदी ।
[commentary]
परिहारस्तु तत्तदीयशब्दवैजात्यविषयकश्रावणप्रत्यक्षरहिता इत्यर्थाश्रयणेन ज्ञेयः । जानन्तोऽपि ज्ञानाश्रया अपि जडाः ज्ञानानाश्रया इति विरोधः, तत्परिहारस्तु प्राणित्वप्रयुक्तयत्किञ्चिज्ज्ञानाश्रया अपि परिचितसन्निहिततत्तद्विषयकविशेषज्ञानरहिता इत्यर्थाश्रयणेन बोध्यः । दुर्यशसा अकीर्त्या, परिगृहीता इव, भाग्यस्य, विपर्ययः व्यत्ययः । एवं च अभाग्येनेत्यर्थः । परिष्वक्तास्संसक्ता इव । 'ष्वञ्ज परिष्वङ्गे' इति धातोः कर्मणि क्तः । कुलं कश्यपस्य ब्रह्मणस्सन्ततिं तच्च, शीलानि प्राक्तनासुरविजयचातुर्याणि च, विस्मृत्य, अपर्यालोच्य, निश्शेषं निरवशेषं, अपत्रपां लज्जां, विसृज्य, निषङ्गं इषुधिं, अवरोप्य उज्झित्वा । पृष्ठतः पृष्ठभागे । सार्वविभक्तिकस्तसिः । बुद्धिं, आवेशयन्तः विनिवेशयन्त इत्यर्थः । पलायनेच्छयेति यावत् । जयसम्पादकानि आयुधानि प्रहरणानि । शाकपार्थिवादित्वात्समासः । अवमुच्य त्यक्त्वा, भिक्षार्थं, कपालानि मृतास्थिपात्राणि । 'स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च' इत्यमरः । पाणिभिः आददानाः स्वीकुर्वाणाः आ च सर्गात्सृष्टिसमयमारभ्येत्यर्
पलायमानाः दैवतान्येव, यो
[^१] 'धावु - गतिशुद्ध्योः' -- 'स्वरितेत् धावति-धावते-दधाव-दधावे’ इत्यभियुक्तोक्तेः 'दधाविरे' -- इति प्रयुक्तम् ॥ 'अथोष्मन्ता आत्मनेपदिनः' पूर्वम्पठितोऽयम् 'अव' धातोः परत्रपठितः भौवादिकः ॥ 'सृ गतौ' इत्यस्मात् क्राद्यन्तर्गतात्भौवादिकात् शीघ्रगतिविवक्षायां 'पाघ्राध्मा --' (पा. सू. ७.३.७८) इत्यादिना शित्येव 'धौ' -- आदेशः, न तु लिटि, नापि आत्मनेपदी ।