2023-07-27 13:04:17 by Bharadwajraki
This page has been fully proofread once and needs a second look.
विस्मृत्य कुलशीलानि, विसृज्य निश्शेषमपत्रपाम्, अवरोप्य निषङ्गं, आवेशयन्तः पृष्ठतो बुद्धिम्, अवमुच्य जयायुधानि, आददानाः भिक्षाकपालानि पाणिभिः, आसर्गादाचमहाप्रळयादध्वरहविर्भिरेव द्विजन्मनामविश्रान्तपरिपुष्टतयेव, प्राप्ते समरे सायुधाश्च, सवाहनाश्च, सैकता इव सेतवः, सर्वतोऽपि विजघटिरे विबुधभटाः ।
[Ccommentary]
परिहारस्तु तत्तदीयशब्दवैजात्यविषयकश्रावणप्रत्यक्षरहिता इत्यर्थाश्रयणेन ज्ञेयः । जानन्तोऽपि ज्ञानाश्रया अपि जडाः ज्ञानानाश्रया इति विरोधः, तत्परिहारस्तु प्राणित्वप्रयुक्तयत्किञ्चिज्ज्ञानाश्रया अपि परिचितसन्निहिततत्तद्विषयकविशेषज्ञानरहिता इत्यर्थाश्रयणेन बोध्यः । दुर्यशसा अकीर्त्या, परिगृहीता इव, भाग्यस्य, विपर्ययः व्यत्ययः । एवं च अभाग्येनेत्यर्थः । परिष्वक्तास्संसक्ता इव । 'ष्वञ्ज परिष्वङ्गे' इति धातोः कर्मणि क्तः । कुलं कश्यपस्य ब्रह्मणस्सन्ततिं तच्च, शीलानि प्राक्तनासुरविजयचातुर्याणि च, विस्मृत्य, अपर्यालोच्य, निश्शेषं निरवशेषं, अपत्रपां लज्जां, विसृज्य, निषङ्गं इषुधिं, अवरोप्य उज्झित्वा । पृष्ठतः पृष्ठभागे । सार्वविभक्तिकस्तसिः । बुद्धिं, आवेशयन्तः विनिवेशयन्त इत्यर्थः । पलायनेच्छयेति यावत् । जयसम्पादकानि आयुधानि प्रहरणानि । शाकपार्थिवादित्वात्समासः । अवमुच्य त्यक्त्वा, भिक्षार्थं, कपालानि मृतास्थिपात्राणि । 'स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च' इत्यमरः । पाणिभिः आददानाः स्वीकुर्वाणाः आ च सर्गात्सृष्टिसमयमारभ्येत्यर्थ: । आ च महाप्रळयात् महाप्रळयमवधीकृत्येत्यर्थः । द्विजन्मनामध्वरेषु यागेषु, यानि हवींषि, तैरेव, अविश्रान्तं सन्ततं, परिपुष्टानां भावः परिपुष्टता, तया स्थूलतयेवेत्यर्थः । सैकताः सिकतामयाः, सेतव इव सर्वतः परितोऽपि, विजघटिरे चस्खलुः । परश्शतभटसाध्ये कार्ये बहवो भयद्रुताश्चेदवशिष्टा भटाः उपायतः स्खलनमन्तरा किं करिष्यन्तीति भावः । अग्न्यादिदिक्पतयोऽपि भीताः सन्तो दिगन्तान् प्रति [^१]दघाविर इत्याह ॥ धावदिति ॥ धावन्तः
पलायमानाः दैवतान्येव, योघाः भटाः, तेषां यूथानि सङ्घाः, तेषां याः
[^१] 'धावु - गतिशुद्ध्योः' -- 'स्वरितेत् धावति-धावते-दधाव-दधावे’ युक्तोक्तेः 'दधाविरे' -- इति प्रयुक्तम् ॥ 'अथोष्मन्ता आत्मनेपदिनः' पूर्वम्पठितोऽयम् 'अव' धातोः परत्रपठितः भौवादिकः ॥ 'सृ गतौ' इत्यस्मात् क्राद्यन्तर्गतात्भौवादिकात् शीघ्रगतिविवक्षायां 'पाघ्राध्मा --' (पा. सू. ७.३.७८) इत्यादिना शित्येव 'धौ' -- आदेशः, न तु लिटि, नापि आत्मनेपदी ।
[