2023-06-05 16:39:49 by ambuda-bot
This page has not been fully proofread.
७३
विस्मृत्य कुलशीलानि, विसृज्य निश्शेषमपत्रपाम्, अवरोप्य निषङ्गं,
आवेशयन्तः पृष्ठतो बुद्धिम्, अवमुच्य जयायुधानि, आददानाः भिक्षाक-
पालानि पाणिभिः, आसर्गादाचमहाप्रळयादध्वरहविभिरेव द्विजन्म-
नामविश्रान्तपरिपुष्टतयेव, प्राप्ते समरे सायुधाथ, सवाहनाथ, सैकता
इव सेतवः, सर्वतोऽपि विजघटिरे विबुधभटाः ।
प्रथमाश्वासः
परिहारस्तु तत्तदीयशब्द वैजा त्यविषयकश्रावणप्रत्यक्षरहिता इत्यर्थाश्रयणेन ज्ञेयः ।
जानन्तोऽपि ज्ञानाश्रया अपि जडा: ज्ञानानाश्रया इति विरोध:, तत्परि-
हारस्तु प्राणित्वप्रयुक्तयत्किञ्चिज्ज्ञानाश्रया अपि परिचितसन्निहिततत्तद्विषयकविशेष-
ज्ञानरहिता इत्यर्थाश्रयणेन बोध्यः । दुर्यशसा अकीर्त्या, परिगृहीता इव, भाग्यस्य,
विपर्ययः व्यत्ययः । एवं च अभाग्येनेत्यर्थः । परिष्वक्तास्संसक्ता इव । 'ध्वज
परिष्वङ्गे' इति धातोः कर्मणि क्तः । कुलं कश्यपस्य ब्रह्मणस्सन्ततिं तच्च,
शीलानि प्राक्तनासुरविजयचातुर्याणि च, विस्मृत्य, अपर्यालोच्य, निश्शेषं निरवशेषं,
अपत्रपां लज्जां, विसृज्य, निषङ्गं इषुधिं, अवरोप्य उज्झित्वा । पृष्ठतः पृष्ठभागे । सार्ववि-
भक्तिकस्तसिः । बुद्धि, आवेशयन्तः विनिवेशयन्त इत्यर्थः । पलायनेच्छयेति
यावत् । जयसम्पादकानि आयुधानि प्रहरणानि । शाकपार्थिवादित्वात्समासः ।
अवमुच्य त्यक्त्वा, भिक्षार्थं, कपालानि मृतास्थिपात्राणि । 'स्यात्कर्पर कपालोड
स्त्री कीकसं कुल्यमस्थि च' इत्यमरः । पाणिभिः आददानाः स्वीकुर्वाणाः आ च
सर्गात्सृष्टिसमयमारभ्येत्यर्थ: । आ च महाप्रळयात् महाप्रळयमवधीकृत्येत्यर्थः ।
द्विजन्मनामध्वरेषु यागेषु, यानि हवींषि, तैरेव, अविश्रान्तं सन्ततं, परिपुष्टानां
भाव: परिपुष्टता, तया स्थूलतये वेत्यर्थः । सैकताः सिकतामयाः, सेतव इव सर्वतः
परितोऽपि, विजघटिरे चस्खलुः । परश्शतभटसाध्ये कार्ये बहवो भयद्रुताश्चेदव-
शिष्टा भटाः उपायत: स्खलनमन्तरा किं करिष्यन्तीति भावः । अमयादिदिक्प-
तयोऽपि भीताः सन्तो दिगन्तान् प्रति 'दघाविर इत्याह ॥ धावदिति ॥ धावन्तः
पलायमानाः दैवतान्येव, योघाः भटाः, तेषां यूथानि सङ्घाः, तेषां याः
—
1. 'धावु- गतिशुद्धयोः ''स्व रितेत्
युक्तोफेः 'दधाविरे' – इति प्रयुक्तम् ॥
पूर्वम्पठितोऽयम् 'अव' धातोः परत्रपठितः भौवादिकः ॥ 'सृ गतौ ' इत्यस्मात् क्रायन्तर्गतात्
भौवादिकात् शीघ्रगति विवक्षायां 'पाघ्रामा -' (पा. सू. 7-3-78) इत्यादिना शित्येत्र
'धौ' – आदेशः, न तु लिडि, नापि आत्मनेपदी ॥
-
N - 10
-
धावति धावते - दधाव-दधावे' इत्यभि-
अथोष्मान्ता आत्मनेपदिन:' इत्यस्मात्