2023-08-09 15:22:04 by Bharadwajraki
This page has been fully proofread twice.
दग्धा इव विषानलैः, दिग्धा इव मोहनचूर्णैः, लुब्धाः परं जीवितेषु, लब्धामपि जयश्रियं चिरादीषद्विवेकसुनियन्त्रणेन क्षणिकदुर्मन्त्रणेन विनाशयन्तः, पश्यन्तोऽप्यचक्षुषः, शृण्वन्तोऽपि बधिराः, जानन्तोऽपि जडाः, परिगृहीता इव दुर्यशसा, परिष्वक्ता[^१] इव भाग्यविपर्ययेण,
[commentary]
अपसरतः अपगच्छतः, कर्मदेवान् अभिघ्नतः प्रहरतः, दैत्यदेवान्, दृष्टिषु विषं गरलं येषां तथाविधान् आशीविषान् सर्पानिव स्थितान् । 'आशीविषो विषधरः’ इत्यमरः । आपततः समीपं प्रत्यागच्छतः, शरान्, उल्लङ्घिता उत्सृष्टा, वेला मर्यादा अब्ध्यम्बुविकृतिर्वा, यैस्तथाविधाः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि’ इत्यमरः । अत एव, विशृङ्खलं निर्निरोधं यथा तथा उत्सर्पतः उद्गच्छतः, महोदधेः कल्लोलानिव स्थितान् । असुराणां ये भटास्तान्, अप्रभवतः असमर्थान्, सेनानां पतयो नायकाः तान् अविद्यमाना, प्रतिपत्तिः प्रज्ञा यस्यास्तां मूच्छितामित्यर्थः । चमूं सेनामपि पश्यन्तः । त्रातारं रक्षकं स्वामिनम् अपश्यन्तः । सायुधाः आयुधैस्सहिताः सवाहनाः, विबुधानां भटाः । अवशा इत्यादीनि विधेयभूतानि विशेषणानि । अवशाः अस्वतन्त्राः, देवमुनेर्दुर्वाससश्शापेनैव तेजसा, हृदयानि प्रविश्य, प्रक्षोभ्यमाणाः प्लोष्यमाणा इव स्थिताः, स्तब्धा निश्चला इव । मुग्धा इव मूढा इव । "मुग्धस्सुन्दरमूढयोः" इति विश्वः । विषानलैर्दग्धा इव । मोहनं प्रज्ञाशैथिल्यसम्पादकं चूर्णं भस्म, तेन दिग्धा इव उद्धूळिता इव, जीवितेषु परंजीवनेष्वेव, लुब्धाः आसक्ताः । 'लुब्धोऽभिलाषुकः' इत्यमरः चिरात् ईषद्विवेकस्य सारासारकलनस्य, सुनियन्त्रणेन सम्बन्धेन । 'नियन्त्रणं स्यात्सम्बन्धः' इति हेमः । लब्धां जयश्रियमपि, क्षणिकेन तात्कालिकेन, दुर्मन्त्रणं दुरालोचनं, तेन, विनाशयन्तः नाशं प्रापयन्तः । पश्यन्तोऽप्यचक्षुषः अविद्यमानचक्षुष्का इत्युक्ते विरोधः, तत्परिहारस्तु
चक्षुर्मुख्यकार्यतत्तद्वव्यक्तितदीयरूपतद्वैजात्यविषयकचाक्षुषरहिता इत्यर्थाश्रयणेन बोध्यः ।शृण्वन्तोऽपि बधिराः नष्टश्रोत्रेन्द्रिया इत्युक्ते विरोधः,
[^१] 'ध्वष्वञ्ज = परिष्वङ्गे' -- 'अथाष्टावनुदात्तेतः -- इत्यारभ्य पठितेषु अयं सप्तमो भौवादिकः ॥ षोपदेशोऽयम् । 'सेक्-सृप्-सृ-स्तॄ-सृज्-स्तॄ-स्त्यान्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्- स्विद्-स्वद्-स्वञ्जू-स्वप्-स्मिङ् ॥' इति शास्त्रात् अत एव आदेशरूपत्वात् 'उपसर्गात् सुनोति... सञ्जस्वञ्जाम्' (पा.मूसू. ८.३.६५) इत्यनेन 'परिष्वजते, परिष्वक्ताः' इत्यादौ षत्वसिद्धिः ॥
[commentary]
अपसरतः अपगच्छतः, कर्मदेवान् अभिघ्नतः प्रहरतः, दैत्यदेवान्, दृष्टिषु विषं गरलं येषां तथाविधान् आशीविषान् सर्पानिव स्थितान् । 'आशीविषो विषधरः’ इत्यमरः । आपततः समीपं प्रत्यागच्छतः, शरान्, उल्लङ्घिता उत्सृष्टा, वेला मर्यादा अब्ध्यम्बुविकृतिर्वा, यैस्तथाविधाः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि’ इत्यमरः । अत एव, विशृङ्खलं निर्निरोधं यथा तथा उत्सर्पतः उद्गच्छतः, महोदधेः कल्लोलानिव स्थितान् । असुराणां ये भटास्तान्, अप्रभवतः असमर्थान्, सेनानां पतयो नायकाः तान् अविद्यमाना, प्रतिपत्तिः प्रज्ञा यस्यास्तां मूच्छितामित्यर्थः । चमूं सेनामपि पश्यन्तः । त्रातारं रक्षकं स्वामिनम् अपश्यन्तः । सायुधाः आयुधैस्सहिताः सवाहनाः, विबुधानां भटाः । अवशा इत्यादीनि विधेयभूतानि विशेषणानि । अवशाः अस्वतन्त्राः, देवमुनेर्दुर्वाससश्शापेनैव तेजसा, हृदयानि प्रविश्य, प्रक्षोभ्यमाणाः प्लोष्यमाणा इव स्थिताः, स्तब्धा निश्चला इव । मुग्धा इव मूढा इव । "मुग्धस्सुन्दरमूढयोः" इति विश्वः । विषानलैर्दग्धा इव । मोहनं प्रज्ञाशैथिल्यसम्पादकं चूर्णं भस्म, तेन दिग्धा इव उद्धूळिता इव, जीवितेषु परंजीवनेष्वेव, लुब्धाः आसक्ताः । 'लुब्धोऽभिलाषुकः' इत्यमरः चिरात् ईषद्विवेकस्य सारासारकलनस्य, सुनियन्त्रणेन सम्बन्धेन । 'नियन्त्रणं स्यात्सम्बन्धः' इति हेमः । लब्धां जयश्रियमपि, क्षणिकेन तात्कालिकेन, दुर्मन्त्रणं दुरालोचनं, तेन, विनाशयन्तः नाशं प्रापयन्तः । पश्यन्तोऽप्यचक्षुषः अविद्यमानचक्षुष्का इत्युक्ते विरोधः, तत्परिहारस्तु
चक्षुर्मुख्यकार्यतत्तद्
[^१] '