2023-07-19 07:03:38 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ७२
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  दग्धा इव विषानलै:लैः, दिग्धा इव मोहनचूर्णै:णैः, लुब्धाः परं जीवितेषु,
  
  
  
   लब्धामपि जयश्रियं चिरादीषद्विवेकसुनियन्त्रणेन क्षणिक दुर्मन्त्रणेन
  
  
  
   विनाशयन्तः पश्यन्तोऽप्यचक्षुषः, शृण्वन्तोऽपि बधिराः, जानन्तोऽपि
  
  
  
   जडाः, परिगृहीता इव दुर्यशसा, परिष्वक्ता[^१] इव भाग्यविपर्ययेण,
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  19
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  अपसरतः अपगच्छतः, कर्मदेवान् अभिन्घ्नतः प्रहरतः, दैत्यदेवान्, दृष्टिषु विषं
  
  
  
   गरलं येषां तथाविधान् आशीविषान् सर्पानिव स्थितान् । 'आशीविषो
  
  
  
   विषधरः इत्यमरः । आपततः समीपं प्रत्यागच्छतः, शरान्, उल्लङ्घिता उत्सृष्टा, वेला
  
  
  
   मर्यादा अब्ध्यम्बुविकृतिर्वा, यैस्तथाविधाः । 'अब्ध्यम्बु विकृतौ वेला कालमर्याद-
  
  
  
  योरपि"’ इत्यमरः। अत एव, विशृङ्खलं निर्निरोधं यथा तथा उत्सर्पतः उद्गच्छतः,
  
  
  
   महोदधेः कल्लोलानिव स्थितान् । असुराणां ये भटास्तान्, अप्रभवतः असमर्थान्,
  
  
  
   सेनानां पतयो नायकाः तान् अविद्यमाना, प्रतिपत्तिः प्रज्ञा यस्यास्तां मूच्छितामि-
  
  
  
  त्यर्थ:त्यर्थः । चमूं सेनामपि पश्यन्तः । त्रातारं रक्षकं स्वामिनम् अपश्यन्तः ।
  
  
  
   सायुधाः आयुधैरस्सहिताः सवाहनाः, विबुधानां भटाः । अवशा इत्यादीनि विधेय-
  
  
  
  भूतानि विशेषणानि । अवशाः अस्वतन्त्राः, देवमुनेर्दुर्वाससरश्शापेनैव तेजसा,
  
  
  
   हृदयानि प्रविश्य, प्रक्षोभ्यमाणाः प्लोष्यमाणा इव स्थिताः, स्तब्धा निश्चला इव ।
  
  
  
   मुग्धा इव मूढा इव । "मुग्धस्सुन्दर मूढयो: योः" इति विश्वः । विषानलैर्दग्धा
  
  
  
   इव । मोहनं प्रज्ञाशैथिल्यसम्पादकं चूर्णं भस्म, तेन दिग्धा इव उद्घधूळिता इव, जीवितेषु
  
  
  
   परंजीवनेष्वेव, लुब्धाः आसक्ताः । 'लुब्धोऽभिलाषुकः' इत्यमरः चिरात् ईषद्विवे-
  
  
  
  कस्य सारासारकलनस्य, सुनियन्त्रणेन सम्बन्धेन । 'नियन्त्रणं स्यात्सम्बन्धः' इति
  
  
  
   हेमः । लब्धां जयश्रियमपि, क्षणिकेन तात्कालिकेन, दुर्मन्त्रणं दुरालोचनं, तेन,
  
  
  
   विनाशयन्तः नाशं प्रापयन्तः । पश्यन्तोऽप्यचक्षुषः अविद्यमानचक्षुष्का इत्युक्ते
  
  
  
   विरोषःधः, तत्परिहारस्तु चक्षुर्मुख्यकार्यतत्तद्वयक्तितदीयरूप तद्वैजात्यविषयकचाक्षुषर-
  
  
  
  हिता इत्यर्थाश्रयणेन बोध्यः। शृण्वन्तोऽपि बधिराः नष्टश्रोत्रेन्द्रिया इत्युक्ते विरोध:,
  
  
  
   
  
  
  
  ।
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  1. धः,
  
  
  
   
  
  
  
  [^१]  'ध्वज = परिष्वङ्गे'
  
  
  
   
  
  
  
   -- 'अथाष्टावनुदात्तेतः -- इत्यारभ्य पठितेषु अयं सप्तमो भौत्रावादिकः ॥ षोपदेशोऽयम् । 'सेक्-सृप् - -सृ-स्तृतॄ-सृज्
  
  
  
   
  
  
  
  -स
  
  
  
   
  
  
  
  'अथाष्टावनुदात्तेतः इत्यारभ्य पठितेषु अयं
  
  
  
  - स्तु-स्तॄ-स्त्यान्ये दन्त्याजन्त-
  
  
  
  सादयः । एकाचः षोपदेशाः ष्वष्क् - स्त्रि- स्विद्· -स्वद् - -स्वञ्ज, स्वप् - स्मिःजू-स्वप्-स्मिङ् ॥' इति
  
  
  
   शास्त्रात् अत एव आदेशरूपत्वात् 'उपसर्गात् सुनोति... सञ्जस्वञ्जाम्' (पा.मू. 8-3-65८.३.६५)
  
  
  
   इत्यनेन 'परिष्वजते, परिष्वक्ताः' इत्यादौ षत्वसिद्धिः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  >