This page has not been fully proofread.

७२
 
नीलकण्ठविजये सव्याख्याने
 
दग्धा इव विषानलै:, दिग्धा इव मोहनचूर्णै:, लुब्धाः परं जीवितेषु,
लब्धामपि जयश्रियं चिरादीषद्विवेकसुनियन्त्रणेन क्षणिक दुर्मन्त्रणेन
विनाशयन्तः पश्यन्तोऽप्यचक्षुषः, शृण्वन्तोऽपि बधिराः, जानन्तोऽपि
जडाः, परिगृहीता इव दुर्यशसा, परिष्वक्ता इव भाग्यविपर्ययेण,
 
"
 
19
 
अपसरतः अपगच्छतः, कर्मदेवान् अभिन्नतः प्रहरतः, दैत्यदेवान्, दृष्टिषु विषं
गरलं येषां तथाविधान् आशीविषान् सर्पानिव स्थितान् । 'आशीविषो
विषधरः इत्यमरः । आपततः समीपं प्रत्यागच्छतः, शरान्, उल्लङ्घिता उत्सृष्टा, वेला
मर्यादा अब्ध्यम्बुविकृतिर्वा, यैस्तथाविधाः । 'अब्ध्यम्बु विकृतौ वेला कालमर्याद-
योरपि" इत्यमरः। अत एव, विशृङ्खलं निर्निरोधं यथा तथा उत्सर्पतः उद्गच्छतः,
महोदधेः कल्लोलानिव स्थितान् । असुराणां ये भटास्तान्, अप्रभवतः असमर्थान्,
सेनानां पतयो नायकाः तान् अविद्यमाना, प्रतिपत्तिः प्रज्ञा यस्यास्तां मूच्छितामि-
त्यर्थ: । चमूं सेनामपि पश्यन्तः । त्रातारं रक्षकं स्वामिनम् अपश्यन्तः ।
सायुधाः आयुधैरसहिताः सवाहनाः, विबुधानां भटाः । अवशा इत्यादीनि विधेय-
भूतानि विशेषणानि । अवशाः अस्वतन्त्राः, देवमुनेर्दुर्वाससरशापेनैव तेजसा,
हृदयानि प्रविश्य, प्रक्षोभ्यमाणाः प्लोष्यमाणा इव स्थिताः, स्तब्धा निश्चला इव ।
मुग्धा इव मूढा इव । "मुग्धस्सुन्दर मूढयो: " इति विश्वः । विषानलैर्दग्धा
मोहनं प्रज्ञाशैथिल्यसम्पादकं चूर्णं भस्म, तेन दिग्धा इव उद्घळिता इव, जीवितेषु
परंजीवनेष्वेव, लुब्धाः आसक्ताः । 'लुब्धोऽभिलाषुकः' इत्यमरः चिरात् ईषद्विवे-
कस्य सारासारकलनस्य, सुनियन्त्रणेन सम्बन्धेन । 'नियन्त्रणं स्यात्सम्बन्धः' इति
हेमः । लब्धां जयश्रियमपि, क्षणिकेन तात्कालिकेन, दुर्मन्त्रणं दुरालोचनं, तेन,
विनाशयन्तः नाशं प्रापयन्तः । पश्यन्तोऽप्यचक्षुषः अविद्यमानचक्षुष्का इत्युक्ते
विरोषः, तत्परिहारस्तु चक्षुर्मुख्यकार्यतत्तद्वयक्तितदीयरूप तद्वैजात्यविषयकचाक्षुषर-
हिता इत्यर्थाश्रयणेन बोध्यः। शृण्वन्तोऽपि बधिराः नष्टश्रोत्रेन्द्रिया इत्युक्ते विरोध:,
 

 
"
 
1. ध्वज = परिष्वङ्गे'
 
सप्तमो भौत्रादिकः ॥ षोपदेशोऽयम् । 'सेक्-सृप् - सृ-स्तृ-सृज्
 
-स
 
'अथाष्टावनुदात्तेतः इत्यारभ्य पठितेषु अयं
- स्तु-स्त्यान्ये दन्त्याजन्त-
सादयः । एकाचः षोपदेशाः ष्वष्क् - स्त्रिद्· स्वद् - स्वञ्ज, स्वप् - स्मिः ॥' इति
शास्त्रात् अत एव आदेशरूपत्वात् 'उपसर्गात् सुनोति... सञ्जस्वञ्जाम्' (पा.मू. 8-3-65)
इत्यनेन 'परिष्वजते, परिष्वक्ताः' इत्यादौ षत्वसिद्धिः ॥
 
-
 
>