This page has been fully proofread twice.

दिवमारूढा निगूढाभिसन्धयस्ते किल सहृदया इव कञ्चित्कालमहृदया एव परिक्रम्य, परिज्ञातमर्माणः सर्वतो निर्वापयामासुरतर्किता एव गीर्वाणबलम् । अपसरतः कर्मदेवान्, अभिघ्नतो दैत्यदेवान् । आपततश्शरानाशीविषानिव दृष्टिविषान्, उत्सर्पतो विशृङ्खलमसुरभटानुल्लङ्घितवेलानिव कल्लोलान्महोदधेः, अप्रभवतः सेनापतीन्, अप्रतिपत्तिमूढमपि पश्यन्तः स्वामिनं,a अपश्यन्तस्त्रातारं, अवशा देवमुनिशाप तेजसा प्रविश्य हृदयानि प्रक्षोभ्यमाणाः, स्तब्धा इव, मुग्धा इव,
 
[Commentary]
 
शस्प्रत्ययः । समरस्य मुखात् । [^१]'ल्यब्लोपे कर्मण्यधिकरणे च' इति पञ्चमी । युद्धमुखभागं विहायेत्यर्थः । समन्ततः, अपचक्रमुः प्रतस्थिरे । अन्यतरजयेनापीष्टसिद्धौ सत्यां को वा समरमुखं गत्वा प्राणान् त्यजतीति भावः । आहवमरणाद्देवभूयं गतानामसुराणामसुरदेवानां व्यापारमाह ॥ अथेति ॥ ये दनुजवीराः । आहवः युद्धमेव मखो यागः । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । तस्मिन्, हुतं प्रक्षिप्तं, शरीरं यैस्ते, त्यक्तशरीरा इति यावत् । देवभावं देवत्वम्, आपद्य, दिवं स्वर्गम्, आरूढाः प्राप्ताः, वर्तन्त इति शेषः । ते किल केचिद्दैत्यदेवाः, अप्रशस्तं हृदयं येषां ते अहृदयाः ।शाकपार्थिवादित्वात्समासः । अत एव निगूढः निगूहितः । अभितः अभिसन्धिः देवनिग्रहाभिप्रायो यैस्तथाभूतास्सन्तोऽपि । एवकारोऽप्यर्थः । 'अभिसन्धिरभिप्रायकामयोः' इति विश्वः । कञ्चित्कालं क्वचित्काले । 'कालाध्वनोरत्यन्तसंयोगे' (पा. सू. २.३.५) इति द्वितीया । सहृदयाः हृदयाळव इव, सुहृद इवेति यावत् । 'हृदयाळुस्सहृदयः' इत्यमरः । परिक्रम्य चरित्वा, परिज्ञातानि मर्माणि रहस्यानि यैस्ते । 'मर्म गोप्यं रहस्यं च' इत्यमरसुधायां हेमचन्द्रः । अतर्किताः शत्रुतया असम्भाविता एव, अमरबलं, निर्वापयमासुः शमयामासुः । रहस्यज्ञाः के वीराः शत्रून्न नाशयन्तीति भावः । सुरयोधास्तत्क्षणमविदितजयोपायास्सन्तः चित्रलिखिता इव तूष्णीमवस्थाय कञ्चित्कालं, प्रतस्थिर इत्याह ॥ अपेति ॥
 
a. 'अप्रतिपत्तिमूढामपि पश्यन्तः चमूम्' -- इति व्याख्यापाठः ॥
 
[^१] 'प्रासादात् प्रेक्षते, आसनात् प्रेक्षते' -- प्रासादमारुह्य आसने उपविश्य प्रेक्षते इत्यर्थः । 'श्वशुराज्जिह्रेति' -- श्वशुरं वीक्ष्येत्यर्थः । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका -- अलं श्रमेण - श्रमेण साध्यं नास्तीत्यर्थः । शतेन शतेन (परिच्छिद्य) वत्सान् पाययति पयः । कस्मात् त्वम् ? नद्याः ॥ ल्यब्ग्रहणमिह ल्यबर्थपरम् -- तेन क्त्वोऽपि लोपे' आसने स्थित्वा प्रेक्षते=आसनात् प्रेक्षते' -- इति सिद्ध्यति ॥