2023-07-19 06:46:02 by Bharadwajraki
This page has been fully proofread once and needs a second look.
प्रेथमांश्वासः
8
दिवमारूढा निगूढाभिसन्धयस्ते किल सहृदया इव कञ्चित्कालमहृदया
एव परिक्रम्य, परिज्ञातमर्माणः सर्वतो निर्वापयामासुरतर्किता एव
गीर्वाणबलम् । अपसरतः कर्मदेवान्, अभिन्घ्नतो दैत्यदेवान् । आपत-
तश्शरानाशीविषानिव दृष्टिविषान्, उत्सर्पतो विशृङ्खलमसुरभटानुल्ल-
तिङ्घितवेलानिव कल्लोलान्महोदधेः, अप्रभवतः सेनापतीन्, अप्रतिपत्ति-
मूढमपि पश्यन्तः स्वामिनं,a अपश्यन्तस्त्रातारं, अवशा देवमुनिशाप -
तेजसा प्रविश्य हृदयानि प्रक्षोभ्यमाणाः, स्तब्धा इव, मुग्धा इव,
[Commentary]
शस्प्रत्ययः । समरस्य मुखात् । " [^१]'ल्यब्लोपे कर्मण्यधिकरणे च' इति पञ्चमी ।
युद्धमुखभागगं विहायेत्यर्थः । समन्ततः, अपचकक्रमुः प्रतस्थिरे । अन्यतरजयेनापीष्ट-
सिद्धौ सत्यां को वा समरमुखं गत्वा प्राणान् त्यजतीति भावः । आहवमरणाद्देव-
भूयं गतानामसुराणामसुरदेवानां व्यापारमाह ॥ अथेति ॥ ये दनुजवीराः । आहव:
वः युद्धमेव मखो याग:गः । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । तस्मिन्, हुतं प्रक्षिप्त,
तं, शरीरं यैस्ते, त्यक्तशरीरा इति यावत् । देवभाववं देवत्वम्, आपद्य, दिवं स्वर्गम्,
आरूढाः प्राप्ताः, वर्तन्त इति शेषः । ते किल के चिद्दैत्यदेवाः, अप्रशस्तं हृदयं येषां
ते अहृदया: । याः ।शाकपार्थिवादित्वात्समासः । अत एव निगूढ:ढः निगूहितः । अभितः
अभिसन्धिः देवनिग्रहाभिप्रायो यैस्तथाभूतास्सन्तोऽपि । एक्वकारोऽप्यर्थः । 'अभि-
सन्धिरभिप्रायकामयोः' इति विश्वः । कञ्चित्कालं क्वचित्काले । 'कालाध्वनोरत्य-
न्तसंयोगे' (पा. सू. 2-3-5२.३.५) इति द्वितीया । सहृदया:याः हृदयाळव इव, सुहृद इवेति
यावत् । 'हृदयाळुस्सहृदयः' इत्यमरः । परिक्रम्य चरित्वा, परिज्ञातानि मर्माणि
रहस्यानि यैस्ते । 'मर्म गोप्यं रहस्यं च ' इत्यमरसुषाधायां हेमचन्द्रः । अतर्किताः
शत्रुतया असम्भाविता एव, अमरबलं, निर्वापयमासुः शमयामासुः । रहस्यज्ञाः
के वीराः शत्रून्न नाशयन्तीति भावः । सुरयोधास्तत्क्षणमविदितजयोपायास्सन्तः
चित्रलिखिता इव तूष्णीमवस्थाय कञ्चित्कालं, प्रतस्थिर इत्याह ॥ अपेति ॥
७१
a.
'अप्रतिपत्तिमूढामपि पश्यन्त:तः चमूम् ' ' -- इति व्याख्यापाठः ॥
6
1. '
[^१] 'प्रासादात् प्रेक्षते, आसनात् प्रेक्षते' –-- प्रासादमारुह्य आसने उपविश्य
प्रेक्षते इत्यर्थः । 'श्वशुराज्जिहेति '–ह्रेति' -- श्वशुरं वीक्ष्येत्यर्थः । गम्यमानापि क्रिया
कारकविभक्तौ प्रयोजिका –-- अलं श्रमेण - श्रमेण साध्यं नास्तीत्यर्थः । शतेन शतेन (परिच्छिद्य)
वत्सान् पाययति पयः । कस्मात् त्वम् ? नद्याः ॥ ल्यव्ब्ग्रहणमिह ल्यबर्थपरम् -- तेन
क्त्वोऽपि लोपे '' आसने स्थित्वा प्रेक्षते= आसनात् प्रेक्षते ' ' -- इति सिद्ध्यति ॥
।