2023-08-09 15:09:48 by Bharadwajraki
This page has been fully proofread twice.
दुश्चराणि सम्प्राप्ता वयममरपदं, केन शक्या निग्रहीतुं, केन शक्या अनुग्रहीतुम्, अधिष्ठास्यति यस्स्वर्गम्, अतिथयस्तस्य वयं भवाम' इति कृतनिश्चयास्सम्मन्त्र्य परस्परं, सङ्घशोऽपचक्रमुस्समन्ततोऽपि समरमुखात् । अथ ये केचिदाहवमखे हुतशरीरा दनुजवीरा देवभावमापद्य
[commentary]
इति श्रुतेः । 'क्षीणे पुण्ये मर्त्यलोकं[^१] विशन्ति' इति स्मृतेश्चेति विवेकः । अस्माकमयं बुद्धेः विपर्ययो भ्रंशः, कस्मात्कुतः, आकस्मिकः अज्ञातहेतुकः, वयं कस्मै, प्रयोजनायेत्यस्य [^२]गम्यमानत्वादप्रयोगः । असुरैस्समं युध्यामहे युद्धं कुर्महे, यद्वा असुरैर्युध्यामहे ताड्यामहे । कस्य हेतोः किन्निमित्तम् । [^३]"अन्नस्य हेतोर्वसति' इतिवत् षष्ठी । वयं बध्यामहे । पाशादिभिरिति शेषः । आयासे प्रयत्नसाध्ये, अस्मिन् कर्मणि, हेतुं न बुध्यामहे न जानीमहे । के नः देवाः दानवाश्च के । दुश्चराणि कृच्छ्रसाध्यानि, तपांसि चान्द्रायणादीनि, संभृत्य अनुष्ठाय, अमराणां पदं स्थानं । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः । प्राप्ताः वयं, केन निग्रहीतुं शक्याः, केन वा अनुग्रहीतुं शक्याः । देवो दानवो वा यः स्वर्गमधिष्ठास्यति स्वर्गे स्थास्यतीत्यर्थः । 'अधिशीङ्स्थासां कर्म' (पा. सू. १.४.४६) इत्यधिपूर्वस्य तिष्ठतेराधारस्य कर्मत्वं, 'कर्मणि द्वितीया' (पा. सू. २.३.२) इति
द्वितीया । तस्य वयमतिथयो भवामः । अतिथिलक्षणं तूक्तं धर्मशास्त्रे -- 'सम्प्राप्तो वैश्वदेवान्ते सोऽतिथिस्वर्गसङ्क्रमः' इति । इति परस्परमन्योन्यं, सम्मन्त्र्य आलोच्य । कृतनिश्चयाः कृतः निश्चयः निष्कर्षः व्यवस्था वा यैस्तथाविधास्सन्तः । सङ्घशः सङ्घीभूय । 'बह्वल्पार्थात्....' (पा.सू. ५.४.४२) इत्यादिना
[^१] भगवद्गीता (९.२१) ।
[^२] 'निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' -- किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय एवं किं कारणम्, को हेतुः किं प्रयोजनमित्यादि -- एतदनुरोधेन प्रयोजनायेत्यस्य गम्यमानत्वेऽपि 'कस्मै' इति चतुर्थी भवतीति भावः ॥
[^३] 'षष्ठी हेतुप्रयोगे' (पा. सू. २.३.२६) -- हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात्अ अन्नस्य हेतोर्वसति -- इतिवत् ॥ 'हेतौ' (पा. सू. २.३.२३) इति तृतीयायां प्राप्तायामनेन षष्ठी । हेतुशब्दप्रयोगाभावे 'अन्नेन वसति' -- इति तृतीयैव ॥ हेतौ द्योत्ये इति विवक्षणात् अन्नशब्दादपि षष्टी । 'अन्नस्य हेतोस्तुभ्यं नमः' -- इत्यत्र युष्मच्छब्दान्न षष्ठी ॥
[commentary]
इति श्रुतेः । 'क्षीणे पुण्ये मर्त्यलोकं[^१] विशन्ति' इति स्मृतेश्चेति विवेकः । अस्माकमयं बुद्धेः विपर्ययो भ्रंशः, कस्मात्कुतः, आकस्मिकः अज्ञातहेतुकः, वयं कस्मै, प्रयोजनायेत्यस्य [^२]गम्यमानत्वादप्रयोगः । असुरैस्समं युध्यामहे युद्धं कुर्महे, यद्वा असुरैर्युध्यामहे ताड्यामहे । कस्य हेतोः किन्निमित्तम् । [^३]"अन्नस्य हेतोर्वसति' इतिवत् षष्ठी । वयं बध्यामहे । पाशादिभिरिति शेषः । आयासे प्रयत्नसाध्ये, अस्मिन् कर्मणि, हेतुं न बुध्यामहे न जानीमहे । के नः देवाः दानवाश्च के । दुश्चराणि कृच्छ्रसाध्यानि, तपांसि चान्द्रायणादीनि, संभृत्य अनुष्ठाय, अमराणां पदं स्थानं । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः । प्राप्ताः वयं, केन निग्रहीतुं शक्याः, केन वा अनुग्रहीतुं शक्याः । देवो दानवो वा यः स्वर्गमधिष्ठास्यति स्वर्गे स्थास्यतीत्यर्थः । 'अधिशीङ्स्थासां कर्म' (पा. सू. १.४.४६) इत्यधिपूर्वस्य तिष्ठतेराधारस्य कर्मत्वं, 'कर्मणि द्वितीया' (पा. सू. २.३.२) इति
द्वितीया । तस्य वयमतिथयो भवामः । अतिथिलक्षणं तूक्तं धर्मशास्त्रे -- 'सम्प्राप्तो वैश्वदेवान्ते सोऽतिथिस्वर्गसङ्क्रमः' इति । इति परस्परमन्योन्यं, सम्मन्त्र्य आलोच्य । कृतनिश्चयाः कृतः निश्चयः निष्कर्षः व्यवस्था वा यैस्तथाविधास्सन्तः । सङ्घशः सङ्घीभूय । 'बह्वल्पार्थात्....' (पा.सू. ५.४.४२) इत्यादिना
[^१] भगवद्गीता (९.२१) ।
[^२] 'निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' -- किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय एवं किं कारणम्, को हेतुः किं प्रयोजनमित्यादि -- एतदनुरोधेन प्रयोजनायेत्यस्य गम्यमानत्वेऽपि 'कस्मै' इति चतुर्थी भवतीति भावः ॥
[^३] 'षष्ठी हेतुप्रयोगे' (पा. सू. २.३.२६) -- हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात्