2023-07-18 05:55:50 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  दुश्चराणि सम्प्राप्ता वयममरपदं, केन शक्या निग्रहीतुं, केन शक्या
  
  
  
   अनुग्रहीतुम्, अधिष्ठास्यति यस्स्वर्गम्, अतिथयस्तस्य वयं भवाम ' इति
  
  
  
  ' इति कृतनिश्चयास्सम्मन्त्र्य परस्परं, सङ्घशोऽपचक्र मुस्समन्ततोऽपि समर-
  
  
  
  मुखात् । अथ ये केचिदा हवमखे हुतशरीरा दनुजवीरा देवभावमापद्य
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  इति श्रुतेः । 'क्षीणे पुण्ये मर्त्यलोक'कं[^१] विशन्ति' इति स्मृतेश्चेति विवेकः ।
  
  
  
   अस्माकमयं बुद्धेः विपर्ययो भ्रंशः, कस्मात्कुतः, आकस्मिकः अज्ञातहेतुकः, वयं
  
  
  
   कस्मै, प्रयोजनायेत्यस्य 2  [^२]गम्यमानत्वादप्रयोगः । असुरैस्समं युध्यामहे युद्धं कुर्महे,
  
  
  
   यद्वा असुरैर्युध्यामहे ताब्यामहे । ड्यामहे ।कस्य हेतोः किन्निमित्तम् । [^३]"अन्नस्य हेतोर्वसति'
  
  
  
   इतिवत् षष्ठी । वयं बध्यामहे । पाशादिभिरिति शेष:षः । आयासे प्रयत्नसाध्ये,
  
  
  
   अस्मिन् कर्मणि, हेतुं न बुध्यामहे न जानीमहे । के नः देवाः दानवाश्च के ।
  
  
  
   दुश्चराणि कृच्छ्रसाध्यानि, तपांसि चान्द्रायणादीनि, संभृत्य अनुष्ठाय, अमराणां
  
  
  
   पदं स्थानं । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः । प्राप्ताः वयं,
  
  
  
   केन निग्रहीतुं शक्याः, केन वा अनुग्रहीतुं शक्या:याः । देवो दानवो वा यः स्वर्ग-
  
  
  
  मधिष्ठास्यति स्वर्गे स्थास्यतीत्यर्थः । 'अधिशीङ्स्थासां कर्म' (पा. सू. 1-4-46१.४.४६)
  
  
  
   इत्यधिपूर्वस्य तिष्ठतेराधारस्य कर्मत्वं, 'कर्मणि द्वितीया' (पा. सू. 2-3-2 २.३.२) इति
  
  
  
  
  
  
  
  द्वितीया । तस्य वयमतिथयो भवामः । अतिथिलक्षणं तूक्तं धर्मशास्त्रे -
  
  
  
  - 'सम्प्राप्तो वैश्वदेवान्ते सोऽतिथिस्वर्गसङ्कम:क्रमः' इति । इति परस्परमन्योन्यं,
  
  
  
   सम्मन्त्र्य आलोच्य । कृतनिश्चयाः कृतः निश्चयः निष्कर्षः व्यवस्था वा यैस्तथा-
  
  
  
  विधास्सन्तः । सङ्घशः सङ्घीभूय । 'बह्वल्पार्थात् ....' (पा.सू. 5-4-42५.४.४२) इत्यादिना
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] भगवद्गीता (9-21९.२१)।
  
  
  
   
  
  
  
  9
  
  
  
   
  
  
  
  2. '  ।
  
  
  
   
  
  
  
  [^२] 'निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' –-- किं निमित्तं वसति, केन
  
  
  
   निमित्तेन, कस्मै निमित्ताय एवं किं कारणम्, को हेतुः किं प्रयोजनमित्यादि
  
  
  
   एतदनुरोधेन प्रयोजनायेत्यस्य गम्यमानत्वेऽपि ' कस्मै ' इति चतुर्थी भवतीति भावः ॥
  
  
  
   
  
  
  
  '
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] 'षष्ठी हेतुप्रयोगे' (पा. सू. 2२.३.२६) -3-26 ) - हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात्
  
  
  
  अअ न्नस्य हेतोर्वसति —-- इतिवत् ॥ 'हेतौ' (पा. सू. 2-3-23 २.३.२३) इति तृतीयायां प्राप्ताया-
  
  
  
  मनेन षष्ठी । हेतुशब्दप्रयोगाभावे 'अन्नेनवसति ' – वसति' -- इति तृतीयैव ॥ हेतौ द्योत्ये इति
  
  
  
   विवक्षणात् अन्नशब्दादपि षष्टी । 'अन्नस्य हेतोस्तुभ्यं नमः ' –' -- इत्यत्र युष्मच्छ-
  
  
  
  ब्दान्न षष्ठी ॥