This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
दुश्चराणि सम्प्राप्ता वयममरपदं, केन शक्या निग्रहीतुं, केन शक्या
अनुग्रहीतुम्, अधिष्ठास्यति यस्स्वर्गम्, अतिथयस्तस्य वयं भवाम ' इति
कृतनिश्चयास्सम्मन्त्र्य परस्परं, सङ्घशोऽपचक्र मुस्समन्ततोऽपि समर-
मुखात् । अथ ये केचिदा हमखे हुतशरीरा दनुजवीरा देवभावमापद्य
 
इति श्रुतेः । 'क्षीणे पुण्ये मर्त्यलोक' विशन्ति' इति स्मृतेश्चेति विवेकः ।
अस्माकमयं बुद्धेः विपर्ययो भ्रंशः, कस्मात्कुतः, आकस्मिकः अज्ञातहेतुकः, वयं
कस्मै, प्रयोजनायेत्यस्य 2 गम्यमानत्वादप्रयोगः । असुरैस्समं युध्यामहे युद्धं कुर्महे,
यद्वा असुरैर्युध्यामहे ताब्यामहे । कस्य हेतोः किन्निमित्तम् । "अन्नस्य हेतोर्वसति'
इतिवत् षष्ठी । वयं बध्यामहे । पाशादिभिरिति शेष: । आयासे प्रयत्नसाध्ये,
अस्मिन् कर्मणि, हेतुं न बुध्यामहे न जानीमहे । के नः देवाः दानवाश्च के ।
दुश्चराणि कृच्छ्रसाध्यानि, तपांसि चान्द्रायणादीनि, संभृत्य अनुष्ठाय, अमराणां
पदं स्थानं । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः । प्राप्ताः वयं,
केन निग्रहीतुं शक्याः, केन वा अनुग्रहीतुं शक्या: । देवो दानवो वा यः स्वर्ग-
मधिष्ठास्यति स्वर्गे स्थास्यतीत्यर्थः । 'अधिशीस्थासां कर्म' (पा. सू. 1-4-46)
इत्यधिपूर्वस्य तिष्ठतेराधारस्य कर्मत्वं, 'कर्मणि द्वितीया' (पा. सू. 2-3-2 ) इति
द्वितीया । तस्य वयमतिथयो भवामः । अतिथिलक्षणं तूक्तं धर्मशास्त्रे-
'सम्प्राप्तो वैश्वदेवान्ते सोऽतिथिस्वर्गसङ्कम:' इति । इति परस्परमन्योन्यं,
सम्मन्त्र्य आलोच्य । कृतनिश्चयाः कृतः निश्चयः निष्कर्षः व्यवस्था वा यैस्तथा-
विधास्सन्तः । सङ्घशः सङ्घीभूय । 'बह्वल्पार्थात् ....' (पा.सू. 5-4-42) इत्यादिना
 
-
 
1. भगवद्गीता (9-21)।
 
9
 
2. ' निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' – किं निमित्तं वसति, केन
निमित्तेन, कस्मै निमित्ताय एवं किं कारणम्, को हेतुः किं प्रयोजनमित्यादि
एतदनुरोधेन प्रयोजनायेत्यस्य गम्यमानत्वेऽपि ' कस्मै ' इति चतुर्थी भवतीति भावः ॥
 
'
 
3. 'षष्ठी हेतुप्रयोगे' (पा. सू. 2-3-26 ) - हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात्
अन्नस्य हेतोर्वसति — इतिवत् ॥ 'हेतौ' (पा. सू. 2-3-23 ) इति तृतीयायां प्राप्ताया-
मनेन षष्ठी । हेतुशब्दप्रयोगाभावे 'अन्नेनवसति ' – इति तृतीयैव ॥ हेतौ द्योत्ये इति
विवक्षणात् अन्नशब्दादपि षष्टी । 'अन्नस्य हेतोस्तुभ्यं नमः ' – इत्यत्र युष्मच्छ-
ब्दान षष्ठी ॥