This page has been fully proofread twice.

टस्थ एव बहिरवतस्थे । अपिच रिपुचमसमूहसमुत्सृज्यमानशरवर्षघर्षितेषु वर्मसु, भिद्यमानेषु चर्मसु कर्मदेवाः 'कस्मादयमस्माकमाकस्मिको बुद्धिविपर्ययः, कस्मै वयमसुरैर्युध्यामहे, कस्य हेतोर्वध्यामहे, बुध्यामहे न हेतुमस्मिन्नायासे, के नो देवाः, के च नो दानवाः, सम्भृत्य तपांसि
 
[commentary]
 
'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । शेषतया शिष्टतया, भग्नं दुःखितं, चेतो यस्य स तथाभूतः । अत एव प्राकृतलोकः पामरजनः । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । 'लोकस्तु भुवने जने' इति च । तेन साधारणस्समानः । 'साधारणस्समानेऽपि' इत्यमरः । प्रचेताः
वरुणः, तटस्थः उदासीन:नः । 'उदासीनस्तटस्थस्स्यात्' इत्यमराधिकपाठः । बहिरेव । नासीरादितिशेषः । अवतस्थे तस्थौ । अवपूर्वात् तिष्ठतेर्लिट् । 'समवप्रविभ्यः स्थः' (पा. सू. १.३.२२) इत्यात्मनेपदम् । को वा स्वशक्तिमुल्लङ्घ्य यतेतेति भावः । कर्मदेवास्तदानीं नासीरमपहाय प्रगता इत्याह ॥ अपि चेति ॥ वर्मसु कवचेषु । 'तनुत्रं वर्म दंशनं' इत्यमरः । रिपूणां चम्वस्सेनाः तासां समूहैः, समुत्सृज्यमानैश्शरैः, धर्षितेषु छिन्नेषु सत्सु । मर्मसु सन्धिस्थानेषु । 'सन्धिस्थानानि मर्माणि मुखमूलं च कन्दकम् इति बाहटः । भिद्यमानेषु विदार्यमाणेषु सत्सु । कर्मणा देवाः, यागादिभिस्तपोभिः प्राप्तदेवत्वा इत्यर्थः । देवा द्विविधाः । आजानदेवाः कर्मदेवा इति । तत्राजानदेवा गवादिसृष्टेः प्रागेव ब्रह्मणा सृष्टा देवाः । 'ता एव देवतास्सृष्टा’ इति श्रुतेः । 'आजानदेवास्ते प्रोक्ताः कल्पादौ ये स्वयम्भुवा । सृष्टास्सूर्यादयो देवा मुक्तकल्पाधिकारिणः ॥' इति वचनाच्च । आजानदेवानामधिकारसमाप्तौ मुक्तिरेव । मनुष्यलोकप्रवेशो नास्तीति यावदधिकारपरिसमाप्तिस्तावदाधिकारिकाणामित्यधिकरणे[^१] तत्सूत्रव्याख्यातृभिस्स्पष्टमुक्तम् । 'यजेत स्वर्गकामः' इति श्रुत्या यज्वनां स्वर्गप्राप्तेरभिधानाद्यथाविध्यनुष्ठितकर्मभिः ये ब्राह्मणाः क्षत्रिया वा देवभूयं गताः ते कर्मदेवाः । एषां मनुष्यलोकप्रवेशोऽस्त्येव । 'यावत्सम्पातमुषित्वा[^] पुनरावर्तते'
 
[^१] ब्रह्मसूत्रस्य 'यावदधिकारमवस्थितिराधिकारिकाणाम् (व्या. सू. ३.३.३२) इत्यस्य शाङ्करभाष्ये स्पष्टमिदम् ॥
 
[^२] छान्दोग्यश्रुतिरियमुपनिषन्मध्यगता । यावत्पुण्यं तत्रोषित्वा पुनरस्मै लोकाय कर्मणे जन्म प्रतिपद्यते इत्यर्थः ॥