This page has been fully proofread once and needs a second look.

प्रथमाश्वासः
 
टस्थ एव बहिरवतस्थे । अपिच रिपुचमसमूहसमुत्सृज्यमानशरवर्षघर्षितेषु
वर्मसु, भिद्यमानेषु चर्मसु कर्मदेवाः 'कस्मादयमस्माकमाकस्मिको बुद्धि-
विपर्ययः, कस्मै वयमसुरैर्युध्यामहे, कस्य हेतोर्वध्यामहे, बुध्यामहे
न हेतुमस्मिन्नायासे, के नो देवाः, के च नो दानवाः, सम्भृत्य तपांसि

 
[commentary]
 
'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । शेषतया शिष्टतया, भग्नं
दुःखितं, चेतो यस्य स तथाभूतः । अत एव प्राकृतलोकः पामरजन:नः । 'विवर्णः
पामरो नीच:चः प्राकृतश्च पृथग्जनः' इत्यमरः । 'लोकस्तु भुवने जने' इति
च । तेन साधारणस्समान:नः । 'साधारणस्समानेऽपि' इत्यमरः । प्रचेताः

वरुणः, तटस्थः उदासीन: । 'उदासीनस्तटस्थस्स्यात्' इत्यमराधिकपाठः ।
बहिरेव । नासीरादितिशेष:षः । अवतस्थे तस्थौ । अवपूर्वात् तिष्ठतेर्लिंलिट् ।
'समवप्रविभ्य: स्थ: यः स्थः' (पा. सू. 1-3-22१.३.२२) इत्यात्मनेपदम् । को वा स्वशक्तिमु
ल्लङ्घ्य यतेतेति भावः । कर्मदेवास्तदानीं नासीरमपहाय प्रगता इत्याह ॥ अपि
चेति ॥ वर्मसु कवचेषु । 'तनुत्रं वर्म दंशनं' इत्यमरः । रिपूणां चम्स्सेनाः
तासां समूहैः, समुत्सृज्यमानैश्शरैः, धर्षितेषु छिन्नेषु सत्सु । मर्मसु सन्धिस्थानेषु ।
'सन्धिस्थानानि मर्माणि मुखमूलं च कन्दकम् इति बाहट:टः । भिद्यमानेषु
विदार्यमाणेषु सत्सु । कर्मणा देवाः, यागादिभिस्तपोभिः प्राप्तदेवत्वा
इत्यर्थः । देवा द्विविधाः । आजानदेवाः कर्मदेवा इति । तत्राजानदेवा गवादि-
सृष्टेः प्रागेव ब्रह्मणा सृष्टा देवा:वाः । 'ता एव देवतास्सृष्टा" इति श्रुतेः । 'आ-
जानदेवास्ते प्रोक्ताः कल्पादौ ये स्वयम्भुवा । सृष्टास्सूर्यादयो देवा मुक्तकल्पा-
धिकारिणः ॥' इति वचनाच्च । आजानदेवानामधिकारसमाप्तौ मुक्तिरेव । मनुष्य-
लोकप्रवेशो नास्तीति यावद धिकारपरिसमाप्तिस्ता वदाधिकारिकाणामित्यधिकरणे
[^१] तत्सूत्रव्याख्यातृभिस्स्पष्टमुक्तम् । 'यजेत स्वर्गकामः' इति श्रुत्या यज्वनां स्वर्ग-
प्राप्तेरभिधानाद्यथाविध्यनुष्ठितकर्मभिः ये ब्राह्मणाः क्षत्रिया वा देवभूयं गताः ते
कर्मदेवाः । एषां मनुष्यलोकप्रवेशोऽस्त्येव । 'यावत्सम्पातमुषित्वा[^१] पुनरावर्तते'
 
६९
 
>
 
1.

 
[^१]
ब्रह्मसूत्रस्य ' यावदधिकारमवस्थितिराधिकारिकाणाम् (व्या. सू. 3-3-32३.३.३२)
इत्यस्य शाङ्करभाष्ये स्पष्टमिदम्
 
2.

 
[^२]
छान्दोग्यश्रुतिरियमुपनिषन्मध्यगता ।
 
यावत्पुण्यं तत्रोषित्वा पुनरस्मै लोकाय कर्मणे जन्म प्रतिपद्यते इत्यर्थः ॥