This page has been fully proofread twice.

युगविगमसमुच्चलञ्च्चण्डचण्डीशभूषोरग-
प्रतिभयमुखवातजातां दशामुजगुर्निर्जराः ॥ ४० ॥
 
ततः प्रचण्डे च वलति पवमाने, तूलवदुत्सार्यमाणेषु दूरत एव वारिधरेषु, सागरानपि शोषयतस्तस्य सनीडमागन्तुमनीहमानेषु च यादोगणेषु, स्वात्मैकशेषतया भग्नचेताः प्रचेताः, प्राकृतलोकसाधारणस्त-
 
[commentary]
 
नाराचाः सपक्षबाणाः । 'प्रक्ष्वेडनास्तु नाराचः' इत्यमरः । तेषां, धारायाः परम्परायाः, समीरेणाहताः प्रहृताः, निर्जराः अमराः, युगस्य विगमोऽवसानं प्रळय इति यावत् । तस्मिन् समुच्चलतः नर्तनं कुर्वतः । 'चण्डस्त्वत्यन्तकोपनः’ इत्यमरः । चण्डीशस्य चण्डीस्वरूपमुक्तं वासिष्ठरामायणे । 'चण्डी
चतुरसञ्चारा सर्वमातृगणावृता । संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी॥" इति । चण्डीशस्वरूपं तत्रैव । 'अलाबुवीणामधुरः क्वणन् व्योमामलच्छविः । देवः किल महाकालो लीलाकोकिलबालकः ॥' नर्तनोपयोगि तदाभरणं च तत्रैव । 'यस्या भूषणमङ्गेषु देवलोकान्तरावलिः । नरकाळी च मञ्जीरमाला कलकलोज्ज्वला ॥ एकस्मिन् श्रवणे दीर्घा हिमवानस्थिमुद्रिका । अपरोऽपि महामेरुः कान्ता काञ्चनकर्णिका ॥' इत्यादि । लिखितादवशिष्टं तत्रैव ज्ञेयम् । अत्र तु ग्रन्थविस्तरभयान्न लिख्यते । भूषाभूतस्योरगस्य, सम्बन्धी प्रतिभयः भयङ्करः । 'भयङ्करं प्रतिभयम्' इत्यमरः । यो मुखवायुः निश्वासपवनः तस्माज्जातामुत्पन्नां दशामवस्थाम्, उज्जगुः शश्लाघिरे । उत्पूर्वात् [^१]'गै शब्दे' इति धातोर्लिट् । बह्वीं तात्कालिकीं पीडामनुभवन् को वा जनः तदल्पां पीडां न बहुमनुत इति भावः । तदानीं वरुणस्य स्वभृत्या अपि समीपवर्तिनो न बभूवुरित्याह ॥ तत इति ॥ ततः प्रचण्डे दुस्सहे पवमाने वलति वाति सति, वारिदेषु मेघेषु, तूलेन कार्पासेन तुल्यं । 'तेन तुल्यम्' (५.१.११५) इत्यादिना वतिप्रत्ययः । निस्सार्यमाणेषु निरस्तेषु सत्सु । सागरानपि शोषयतः तस्य पवनस्य, वेगेन, यादसां जलजन्तूनां गणेषु । 'यादांसि जलजन्तवः' इत्यमरः । सनीडं समीपं प्रति । 'सन्निकृष्टसनीडवत्' इत्यमरः । आगन्तुमायातुं आप्तुं वा, अनीहमानेष्वसमर्थेषु सत्सु, स्वस्य आत्मना एकेन शरीरमात्रेणेत्यर्थः ।
 
[^१] 'गै-शब्दे' -- अयं 'अथाजन्ताः परस्मैपदिनः' -- इत्यारभ्य पठितेषु पञ्चचत्वारिंशद्धातुषु पञ्चदशो भौवादिकः ॥