2023-06-05 16:39:48 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
युगविगमसमुच्चलञ्चण्डचण्डीशभूषोरग-
प्रतिभयमुखवातजातां दशामुजगुर्निर्जराः ॥ ४० ॥
ततः प्रचण्डे च वलति पवमाने, तूलवदुत्सार्यमाणेषु दूरत एव
वारिधरेषु, सागरानपि शोषयतस्तस्य सनीडमागन्तुमनीहमानेषु च
यादोगणेषु, स्वात्मैकशेषतया भग्नचेताः प्रचेताः, प्राकृतलोकसाधारणस्त-
N
कोपनः' इत्यमरः । चण्डीशस्य
नाराचा: सपक्षबाणा: । 'प्रक्ष्वेडनास्तु नाराच : ' इत्यमरः । तेषां, धारायाः
परम्परायाः, समीरेणा हता: प्रहृताः, निर्जरा: अमराः, युगस्य विगमोऽवसानं
प्रळय इति यावत् । तस्मिन् समुच्चलत: नर्तनं कुर्वतः । 'चण्डस्त्वत्यन्त-
चण्डीस्वरूपमुक्तं वासिरामायणे । 'चण्डी
चतुरसञ्चारा सर्वमातृगणावृता । संसारवन विन्यस्ता व्याघ्री भूतौषघातिनी ॥"
इति । चण्डीशस्वरूपं तत्रैव । 'अलाबुवीणामधुर : वणन् व्योमामलच्छवि: । देव:
किल महाकालो लीलाकोकिलबालकः ॥' नर्तनोपयोगि तदाभरणं च तत्रैव ।
'यस्या भूषणमङ्गेषु देवलोकान्तरावलिः । नरकाळी च मञ्जीरमाला कलकलोज्ज्व
।
ला ॥ एकस्मिन् श्रवणे दीर्घा हिमवानस्थिमुद्रिका । अपरोऽपि महामेरु : कान्ता
काञ्चनकर्णिका ॥' इत्यादि । लिखितादवशिष्टं तत्रैव ज्ञेयम् । अत्र तु ग्रन्थवि-
स्तरभयान्न लिख्यते । भूषाभूतस्योरगस्य, सम्बन्धी प्रतिभय: भयङ्कर: । 'भयङ्करं
प्रतिभयम्' इत्यमरः । यो मुखवायुः निश्वासपवनः तस्माज्जातामुत्पन्नां दशामव-
स्थाम्, उज्जगुः शश्वाघिरे । उत्पूर्वात् 'गै शब्दे' इति धातोर्लिट । बह्रीं तात्कालिकों
पीडामनुभवन् को वा जनः तदल्पां पीडां न बहुमनुत इति भावः । तदानीं वरुणस्य
स्वभृत्या अपि समीपवर्तिनो न बभूवुरित्याह ॥ तत इति ॥ ततः प्रचण्डे दुस्सहे
पवमाने वलति वाति सति, वारिदेषु मेघेषु, तूलेन कार्पासेन तुल्यं । 'तेन तुल्यम्'
(5-1-115) इत्यादिना वतिप्रत्ययः । निस्सार्यमाणेषु निरस्तेषु सत्सु । सागरानपि
शोषयत:तस्य पवनस्य, वेगेन, यादसां जलजन्तूनां गणेषु । 'यादांसि जलजन्तवः '
इत्यमरः । सनीडं समीपं प्रति । 'सन्निकृष्टसनीडवत्' इत्यमरः । आगन्तुमायातुं
आप्तुं वा, अनीहमानेष्वसमर्थेषु सत्सु, स्वस्य आत्मना एकेन शरीरमात्रेणेत्यर्थः ।
"
,
"
1. 'गै-शब्दे' अयं
पञ्चचत्वारिंशद् धातुषु पञ्चदशो भौवादिकः ॥
-
·
"
▾
अथाजन्ताः परस्मैप दिन: ' - इत्यारभ्य पठितेषु