2023-08-07 09:33:15 by Bharadwajraki
This page has been fully proofread once and needs a second look.
ईशांबभूवुरसुरेषु न शासनानि
राज्यच्युतस्य नृपतेरिव नागरेषु ॥ ३९ ॥
तदनु
दनुजभुजविकृष्टकोदण्डदण्डोपसम्पातुक-
ज्वलदनलदुरापनाराचधारासमीराहताः ।
[commenatry]
इत्याद्यर्थलाभः । तान्यपि, निर्जरवरैः सुरश्रेष्ठैरभिमन्त्रितानि लक्षणया अभिमन्त्र्यविनिर्मुक्तानीत्यर्थः। अस्त्राणि, असुरेषु राज्यात् प्रभावात्, च्युतस्य भ्रष्टस्य, नृपतेश्शासनानि आज्ञाश्शिक्षा वा नागरेषु पौरेष्विव, नेशाम्बभूवुः समर्थानि न बभूवुरित्यर्थः । [^१]'ईश ऐश्वर्ये' इति धातोः 'इजादेश्च गुरुमतोऽनृच्छः' (पा.सू. ३.१.३६) इत्याम् । ततः 'कृञ्चानुप्रयुज्यते लिटि' (पा.सू. ३.१.४०) इति भूधातोरनुप्रयोगः । ततः कर्तरि लिट्। यद्देवाभिमानादस्त्राणां परपीडाकरत्वं स्यात्ते देवा एव पराभूताश्चेत्कुतस्तरां तद्दैवतकास्त्राणां परपराभवसामर्थ्यमिति भावः । प्रळयकालिकमृत्युभयादपि तात्कालिकमसुरेभ्यो भयं सुराणां दुस्सहमित्याशयेनाह ॥ तदन्विति ॥ तदनु, दनुजानामसुराणां, भुजैः पाणिभिः [^२]'भुजन्युब्जौ पाण्युपतापयोः' (पा.सू. ७.३.६१) इति सूत्राद्भुजशब्दस्य पाणिपरत्वं साधुत्वं च बोध्यम्। विकृष्टाः आकृष्टाः, ये कोदण्डदण्डाः धनुर्दण्डाः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम् इत्यमरः । तेभ्यः, उपसम्पातुकाः समीपं प्रत्यागच्छन्तः । 'लषपत....' (पा. सू. ३.२.१५४) इत्यादिना[^३] उकञ्प्रत्ययः । ये ज्वलतः अनलस्य, [^४]ज्वालाभिर्दुरापाः
दुष्प्रापाः । 'ईषदुस्सुषु...' (पा.सू. ३.३.१२६)। इत्यादिना आप्नोतेः खल्प्रत्ययः ।
[^१] अयं धातुः पृच्यन्तेष्वनुदात्तेत्सु चतुर्दशसु धातुषु तृतीयः 'ईश = ऐश्वर्ये' -- इति पठितः ॥
[^२] पाणौ भुज इति, उपतापे रोगे न्युब्जः इति च निपात्यते ॥ भुज्यतेऽनेनेतिभुजः पाणिः । 'हलञ्च' (पा. सू. ३.३.१२१) इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । 'उब्ज आर्जवे' -- जस्य कुत्वाभावः, (चेष्टारहिता अवाङ्मुखाः शेरते ) दस्य च बकारः, निपात्यते । हयवरट्सूत्रभाष्ये तु 'असिद्धेभ उब्जेः' इति भकारो निपातितः । 'उदज' इति दोपधः, अत एव 'नन्द्राः --' इति निषेधात् उब्जिजिषेतीति रूपमित्येके ॥ अन्येतूपध्मानीयोपधः जश्त्वेन ब इत्याहुः ।
[^३] 'लषपतपदस्थाभूवृषहनकमगमश्रॄभ्य उकञ्' (पा. सू. ३.२.१५४) इति सम्पूर्णसूत्रमादिम् अभिप्रैति ॥ लाषुकः, पातुकः इत्यायुदाहरणम् ॥
[^४] 'ज्वाला' -- इत्यधिकपाठः व्याख्यात्रादृतः ॥