2023-07-18 05:18:17 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तदनु
  
  
  
   
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  ईशांबभूवुरसुरेषु न शासनानि
  
  
  
   
  
  
  
  
  
  
  
  राज्यच्युतस्य नृपतेरिव नागरेषु ॥ ३९ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  तदनु
  
  
  
   
  
  
  
  दनुजभुजविकृष्टकोदण्डदण्डोपसम्पातुक-
  
  
  
  
  
  
  
  ज्वलदनलदुरापनाराचधारासमीराहताः ।
  
  
  
   
  
  
  
  ६७
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commenatry]
  
  
  
   
  
  
  
  इत्याद्यर्थलाभः । तान्यपि, निर्जरवरैः सुरश्रेष्ठैरभिमन्त्रितानि लक्षणया अभिमन्त्र्य-
  
  
  
  विनिर्मुक्तानीत्यर्थः। अस्त्राणि, असुरेषु राज्यात् प्रभावात्, च्युतस्य भ्रष्टस्य, नृपते-
  
  
  
  श्शासनानि आज्ञाश्शिक्षा वा नागरेषु पौरेष्विव, नेशाम्बभूवुः समर्थानि न बभूवुरि-
  
  
  
  त्यर्थः । "[^१]'ईश ऐश्वर्ये' इति धातो:तोः 'इजादेश्च गुरुमतोऽनृच्छ:छः' (पा.सू. 3-1-36३.१.३६)
  
  
  
   इत्याम् । ततः 'कृञ्चानुप्रयुज्यते लिटि' (पा.सू. 3-1-40३.१.४०) इति भूधातोरनुप्रयोगः ।
  
  
  
   ततः कर्तरि लिट्। यद्देवाभिमानादस्त्राणां परपीडाकरत्वं स्यात्ते देवा एव पराभू-
  
  
  
  ताश्चेत्कुतस्तरां तद्दैवतकास्त्राणां परपराभवसामर्थ्यमिति भावः । प्रळयकालिकमृत्यु -
  
  
  
  भयादपि तात्कालिकमसुरेभ्यो भयं सुराणां दुस्सहमित्याशयेनाह ॥ तदन्विति ॥
  
  
  
   तदनु, दनुजानामसुराणां, भुजैः पाणिभिः "[^२]'भुजन्युब्जौ पाण्युपतापयो: '
  
  
  
  योः' (पा.सू. 7-3-61७.३.६१) इति सूत्राद्भुजशब्दस्य पाणिपरत्वं साधुत्वं च बोध्यम्। विकृष्टाः
  
  
  
   आकृष्टाः, ये कोदण्डदण्डा :डाः धनुर्दण्डाः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्
  
  
  
   इत्यमरः । तेभ्यः, उपसम्पातुका:काः समीपं प्रत्यागच्छन्तः । 'लषपत....' (पा. सू.
  
  
  
  3-2-154 ३.२.१५४) इत्यादिना[^३] उकञ्प्रत्ययः । ये ज्वलतः अनलस्य, '[^४]ज्वालाभिर्दुरापाः
  
  
  
  
  
  
  
  दुष्प्रापा:पाः । 'ईषदुरस्सुषु...' (पा.सू. 3-3-126३.३.१२६)। इत्यादिना आप्नोते:तेः खळल्प्रत्ययः ।
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] अयं धातुः पृच्यन्तेष्वनुदात्तेत्सु चतुर्दशसु धातुषु तृतीयः 'ईश = ऐश्वर्ये'–
  
  
  
   -- इति पठितः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  निपूर्वस्यास्य,
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] पाणौ भुज इति, उपतापे रोगे न्युब्जः इति च निपात्यते ॥ भुज्यतेऽनेनेतिभुजः
  
  
  
  पाणि: पाणिः । 'हलञ्च' (पा. सू. 3-3-121३.३.१२१) इति घन्ञ् । न्युब्जन्त्यस्मिन्निति न्युन्ब्जः ।
  
  
  
   'उब्ज आर्जवे'
  
  
  
   -- जस्य कुत्वाभावः, (चेष्टारहिता अवाङ्मुखा:खाः शेरते )
  
  
  
   दस्य च बकारः, निपात्यते । हयवरदट्सूत्रभाष्ये तु 'असिद्धेभ उब्जेः' इति भकारो
  
  
  
   निपातितः । 'उदज' इति दोपधः, अत एव 'नन्द्रा:राः -
  
  
  
  : -' इति निषेधात् उब्जिजिषेतीति रूप-
  
  
  
  मित्येके ॥ अन्येतूपध्मानीयोपध:धः जश्त्वेन ब इत्याहुः ।
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] 'लषपतपदस्था भूत्रुवृषहनकमगमश्रृरॄभ्य उकञ्' (पा. सू. 3-2-154३.२.१५४) इति
  
  
  
   सम्पूर्णमूसूत्रमादिम् अभिप्रैति ॥ लाषुकः, पातुकः इत्यायुदाहरणम् ॥
  
  
  
   
  
  
  
  4.
  
  
  
   
  
  
  
  [^४] 'ज्वाला' -- इत्यधिकपाठः व्याख्यात्रादृतः ॥