2023-06-05 16:39:48 by ambuda-bot
This page has not been fully proofread.
तदनु
प्रथमाश्वासः
ईशांबभूवुरसुरेषु न शासनानि
राज्यच्युतस्य नृपतेरिव नागरेषु ॥ ३९ ॥
दनुजभुजविकृष्टकोदण्डदण्डोपसम्पातुक-
ज्वलदनलदुरापनाराचधारासमीराहताः ।
६७
इत्याद्यर्थलाभः । तान्यपि, निर्जरवरैः सुरश्रेष्ठैरभिमन्त्रितानि लक्षणया अभिमन्त्र्य-
विनिर्मुक्तानीत्यर्थः। अस्त्राणि, असुरेषु राज्यात् प्रभावात्, च्युतस्य भ्रष्टस्य, नृपते-
श्शासनानि आज्ञाश्शिक्षा वा नागरेषु पौरेष्विव, नेशाम्बभूवुः समर्थानि न बभूवुरि-
त्यर्थः । "ईश ऐश्वर्ये' इति धातो: 'इजादेश्च गुरुमतोऽनृच्छ:' (पा.सू. 3-1-36)
इत्याम् । ततः 'कृञ्चानुप्रयुज्यते लिटि' (पा.सू. 3-1-40) इति भूधातोरनुप्रयोगः ।
ततः कर्तरि लिट्। यद्देवाभिमानादत्राणां परपीडाकरत्वं स्यात्ते देवा एव पराभू-
ताश्चेत्कुतस्तरां तद्दैवतकास्त्राणां परपराभवसामर्थ्यमिति भावः । प्रळयकालिकमृत्यु -
भयादपि तात्कालिकमसुरेभ्यो भयं सुराणां दुस्सहमित्याशयेनाह ॥ तदन्विति ॥
तदनु, दनुजानामसुराणां, भुजैः पाणिभिः "भुजन्युब्जौ पाण्युपतापयो: '
(पा.सू. 7-3-61) इति सूत्राद्भुजशब्दस्य पाणिपरत्वं साधुत्वं च बोध्यम्। विकृष्टाः
आकृष्टाः, ये कोदण्डदण्डा : धनुर्दण्डाः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्
इत्यमरः । तेभ्यः, उपसम्पातुका: समीपं प्रत्यागच्छन्तः । 'लषपत....' (पा. सू.
3-2-154) इत्यादिना उकञ्प्रत्ययः । ये ज्वलतः अनलस्य, 'ज्वालाभिर्दुरापाः
दुष्प्रापा: । 'ईषदुरसुषु...' (पा.सू. 3-3-126)। इत्यादिना आप्नोते: खळप्रत्ययः ।
-
1. अयं धातुः पृच्यन्तेष्वनुदात्तेत्सु चतुर्दशसु धातुषु तृतीयः 'ईश = ऐश्वर्ये'–
इति पठितः ॥
-
निपूर्वस्यास्य,
2. पाणौ भुज इति, उपतापे रोगे न्युब्जः इति च निपात्यते ॥ भुज्यतेऽनेनेतिभुजः
पाणि: । 'हलञ्च' (पा. सू. 3-3-121) इति घन् । न्युब्जन्त्यस्मिन्निति न्युन्जः ।
'उब्ज आर्जवे'
जस्य कुत्वाभावः, (चेष्टारहिता अवाङ्मुखा: शेरते )
दस्य च बकारः, निपात्यते । हयवरदसूत्रभाष्ये तु 'असिद्धेभ उब्जेः' इति भकारो
निपातितः । 'उदज' इति दोपधः, अत एव 'नन्द्रा:-
: -' इति निषेधात् उब्जिजिषेतीति रूप-
मित्येके ॥ अन्येतूपध्मानीयोपध: जश्त्वेन ब इत्याहुः ।
3. 'लषपतपदस्था भूत्रुषहनकमगमश्रृभ्य उकञ्' (पा. सू. 3-2-154) इति
सम्पूर्णमूत्रमादिम् अभिप्रैति ॥ लाषुकः, पातुकः इत्यायुदाहरणम् ॥
4. 'ज्वाला' इत्यधिकपाठः व्याख्यात्रादृतः ॥