2023-08-06 10:32:41 by Bharadwajraki
This page has been fully proofread twice.
इति कतिपये दैत्या वात्यानिबर्हणकौतुकात्,
धनुरनुगुणं यावज्ज्यावल्लिभिस्सह युञ्जते ।
प्रसभमभितस्तावत्सावज्ञदैत्यभटोज्झिता
दिशि दिशि जगत्प्राणप्राणच्छिदो न्यपतन् शराः ॥ ३८॥
वाय्वर्कशक्रवरुणानलदैवतान्य-
प्यस्त्राणि निर्जरवरैरभिमन्त्रितानि ।
[commentary]
दितिपुत्राः । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' (पा. सू. ४.१.८५) इति ण्यप्रत्ययः । वातानां समूहो वात्या । 'पाशादिभ्यो यः' (पा. सू. ४.२.४९) इति यप्रत्ययः । 'वात्या वातसमूहे स्याद्भूधूम्या स्याद्धूमसंहतौ' इत्यमरसुधायाम् । तस्या निबर्हणे निग्रहे कौतुकात् कुतूहलात् । 'कौतूहलं कौतुकञ्च कुतुकं च कुतूहलम्' इत्यमरः । ज्यावल्लिभिः ज्याः मौर्व्यः वल्ल्यः लता इवेति, 'उपमितं व्याघ्रादिभिः' (पा. सू. २.१.५६) इति समासः । 'मौर्वी ज्या शिञ्जिनी गुणः', 'वल्ली तु व्रततिर्लता' इति चामरः । ताभिस्सह धनुः अनुगततः गुणणः शब्दः यस्मिन्कर्मणि तत्तथा । 'गुणस्त्वावृत्तिशब्दादौ' इति विश्वः । यावद्युञ्जते घटयन्ते, तावद्दिशि दिशि प्रतिदिशं, अभितः परितः, प्रसभं बलात्कारं जगत्प्राणस्य समीरणस्य प्राणान् भिन्दन्तीति तथा । [^१]'भिदिर्विदारणे' इति धातोः क्विप् । सावज्ञं सहेळनं यथा तथा ॥ 'अवज्ञावहेळनमसूर्क्षणम्’ इत्यमरः । दैत्यानां भटैरुज्झिताः उन्मुक्ताः, शरा न्यपतन् निपेतुः । निपूर्वात् [^२]'पत्ऌ गतौ' इति धातोर्लङ् । को वा बली समीपवर्तिनं रिपुं न प्रहरेदिति भावः । भ्रष्टराज्यस्य नृपस्य प्रजासु शासनमिव सुरविनिर्मुक्तास्त्रादिकमसुरेषु वृथा समजनीत्याह । वाय्विति ॥ वाय्वर्कशक्रवरुणानलाः दैवतानि अभिमानिदेवता येषां तानि । [^३]द्वन्द्वान्ते श्रुतो दैवतशब्दः द्वन्द्वावयवैवाय्वादिभिस्सम्बध्यते । तथा च वायुदैवतानि
[^१] अयमपि रौधादिको द्वितीयो धातुः ।
[^२] 'पत्ऌ गतौ' -- 'शल, हुल, पत्लृ =गतौ' इति स्यमादयः क्षरत्यन्ताः परस्मैपदिनः -- इत्यारभ्य पठितेषु षड्विंशतिसंख्याकेषु धातुषु विंशोधातुः भौवादिकः ॥
[^३] 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' -- इति न्यायः 'न पदान्तद्विर्वचन...' (१.१.५८) इति सूत्रे विधिशब्दस्य प्रत्येकमभिसम्बन्धदर्शनात् क्लृप्तः ॥
धनुरनुगुणं यावज्ज्यावल्लिभिस्सह युञ्जते ।
प्रसभमभितस्तावत्सावज्ञदैत्यभटोज्झिता
दिशि दिशि जगत्प्राणप्राणच्छिदो न्यपतन् शराः ॥ ३८॥
वाय्वर्कशक्रवरुणानलदैवतान्य-
प्यस्त्राणि निर्जरवरैरभिमन्त्रितानि ।
[commentary]
दितिपुत्राः । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' (पा. सू. ४.१.८५) इति ण्यप्रत्ययः । वातानां समूहो वात्या । 'पाशादिभ्यो यः' (पा. सू. ४.२.४९) इति यप्रत्ययः । 'वात्या वातसमूहे स्याद्