This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सध्याख्याने
इति कतिपये दैत्या वात्यानिबर्हणकौतुकात्,

धनुरनुगुणं यावज्ज्यावल्लिभिस्सह युञ्जते ।

प्रसभमभितस्तावत्सावज्ञदैत्यभटोज्झिता

दिशि दिशि जगत्प्राणप्राणच्छिदो न्यपतन् शराः ॥ ३८॥

 
वाय्वर्कशक्रवरुणानलदैवतान्य-

प्यस्त्राणि निर्जरवरैरभिमन्त्रितानि ।
 

 
[commentary]
 
दितिपुत्राः ।
 
'दित्यदित्यादित्यपत्युत्तरपदाण्ण्य : यः' (पा. सू. 4-1-85४.१.८५) इति
ण्यप्रत्ययः । वातानां समूहो वात्या । 'पाशादिभ्यो यः' (पा. सू. 4-2-49४.२.४९) इति
यप्रत्ययः । 'वात्या वातसमूहे स्याद्भूम्या स्याद्धूमसंहतौ' इत्यमरसुधायाम् । तस्या
निबर्हणे निग्रहे कौतुकात् कुतूहलात् । 'कौतूहलं कौतुकञ्च कुतुकं च कुतूहलम्'
इत्यमरः । ज्यावल्लिभिः ज्या:याः मौर्व्यः वल्ल्य:यः लता इवेति, 'उपमितं व्याघ्रादिभिः'
(पा. सू. 2-1-56२.१.५६) इति समासः । 'मौर्वी ज्या शिञ्जिनी गुण:णः', 'वल्ली तु
व्रततिर्लता' इति चामरः । ताभिस्सह धनुः अनुगत गुण शब्द:दः यस्मिन्
कर्मणि तत्तथा । 'गुणस्त्वावृत्तिशब्दादौ ' इति विश्वः । यावद्युञ्जते घटयन्ते,
तावद्दिशि दिशि प्रतिदिशं, अभितः परितः,
 
प्रसभं बलात्कारं जगत्प्राणस्य
समीरणस्य प्राणान् भिन्दन्तीति तथा । " [^१]'भिदिविंर्विदारणे' इति धातोः
किए
क्विप् । सावज्ञं सहेळनं यथा तथा ॥ 'अवज्ञावहेळनमसूर्क्षणम् इत्यमरः ।
दैत्यानां भटैरुज्झिता:ताः उन्मुक्ताः, शरा न्यपतन् निपेतुः । निपूर्वात् [^२]'पत्ऌ गतौ' इति
धातोर्लङ् । को वा बली समीपवर्तिनं रिपुं न प्रहरेदिति भावः । भ्रष्टराज्यस्य
नृपस्य प्रजासु शासनमिव सुरविनिर्मुक्तास्त्रादिकमसुरेषु वृथा समजनीत्याह ।
वा
वाय्विति ॥ वाय्वर्कशक्रवरुणानलाः दैवतानि अभिमानिदेवता येषां तानि ।
`
[^३]द्वन्द्वान्ते श्रुतो दैवतशब्दः द्वन्द्वावयवैवाय्वादिभिस्सम्बध्यते । तथा च वायुदैवतानि
 
पदिन:'
 
1.

 
[^१]
अयमपि रौधादिको द्वितीयो धातुः ।
 
2.
 

 
[^२]
'पत्ऌ गतौ' -- 'शल, हुल, पत्लृ =गतौ' इति स्यमादयः क्षरत्यन्ताः परस्मैपदिनः -
- इत्यारभ्य पठितेषु षडिड्विंशतिसंख्या केषु धातुषु विंशोधातुः भौवादिकः ॥
 
-
 

 
[^३]
'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' -- इति न्यायः 'न पदान्त-
द्विवेर्वचन...' (1-1-58१.१.५८) इति सूत्रे विधिशब्दस्य प्रत्येकम भिसम्बन्धदर्शनात् क्लुलृप्तः ॥
 
3.