2023-08-06 10:06:17 by Bharadwajraki
This page has been fully proofread twice.
अथवा नैतावदस्मिन्नभिनिवेष्टव्यमस्माभिः, अनुकूल एव खल्वयमस्माकमाशुगानलज्वालासन्धुक्षणे सर्वथापि ।
यश्चेष्टतेऽवकाशेषु ये चाप्येनं समाश्रिताः ।
निरुन्धीमहि तान् सर्वान् नीरन्ध्रे शरपञ्जरे ॥ ३७ ॥
[commentary]
न्वयः । अत एव सर्वतो गच्छन् प्रह्रियत इति भावः । सामान्यतस्सुरेषु प्रागुक्तं पामरत्वं वायौ द्रढयितुं तस्य जनिलयप्रकारमाह -- संरुन्धत इति ॥ द्विजा अपि, अन्तः हृदये, निभृतं निश्चलं यथा तथा । यं वायुं संरुन्धते निबध्नन्ति, प्राणायामादिनेति भावः । कीटानां क्रिमीणाम् । 'क्रिमयः कीटाः' इति हलायुधः । सरीसृपाणां सर्पाणामपि । 'चक्री व्याळस्सरीसृपः' इत्यमरः । यमन्नमाहुः ब्रुवन्ति । 'ब्रुवः पञ्चानामादित आहो ब्रुवः' (पा. सू. ३.४.८४) इति ब्रूतेराहादेशः । यः गन्धवाहः । 'गन्धवाहानिलाशुगाः' इत्यमरः । शिथिलानि यानि जीर्णानि शूर्पाणि प्रस्फोटनानि वेणुनिर्मिता नीरन्ध्राः कटविशेषा इत्यर्थः । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः । तेषां परिभ्रमैः वीजनैः यो जायते, असावपि वायुः कथं ओजायते ओजस्वीवाचरति । आयुधमात्ररहितद्विजनियम्यस्य वायोः पराक्रमे को वा चित्रं नाप्नुयादिति भावः । अस्मदनुकूले वायौ आग्रहो न कार्य इत्याशयेनाह ॥ अथवेति ॥ अथवा एतस्मिन् मरुति, अस्माभिरेतावन्नाभिनिवेष्टव्यं आग्रहो न कार्यः । अयमस्माकं सर्वथापि
सर्वप्रकारैरपि । आशुगेषु शरेषु । 'आशुगौ वायुविशिखौ' इत्यमरः । अनलज्वालानां सन्धुक्षणे संयोजने अनुकूलः प्रयोजकः खलु । सङ्ग्रही नावसीदतीति शास्त्रादिति भावः । सदा गमनशीलस्य वायोर्निरोधः क्रियत इत्याह ॥ यश्चेति ॥ अवकाशेषु अनावृतप्रदेशेषु छिद्रेषु वा, यः पवनश्चेष्टते वाति । ये च वा एनं वायुं समाश्रितास्सन्तो वर्तन्त इति शेषः । नीरन्ध्रे निरवकाशे छिद्ररहित इति यावत् । शरपञ्जरे तान् सर्वानपि निररुन्धीमहि निरोवंधं कुर्मः । निपूर्वाद्रुन्धतेर्लिंलिङ्[^१] । उपायविदामस्माकं कस्य वा निग्रहो न सुकर इति भावः । एतस्मिन्नवसरे केचन क्षुद्रदैत्याः वायुं बबाघिधिर इत्याह ॥ इतीति ॥ इतीत्थं कतिपये केचन दैत्याः
[^१] 'रुधिर्-आवरणे' रौधादिकः प्रथमो धातुः ।
यश्चेष्टतेऽवकाशेषु ये चाप्येनं समाश्रिताः ।
निरुन्धीमहि तान् सर्वान् नीरन्ध्रे शरपञ्जरे ॥ ३७ ॥
[commentary]
न्वयः । अत एव सर्वतो गच्छन् प्रह्रियत इति भावः । सामान्यतस्सुरेषु प्रागुक्तं पामरत्वं वायौ द्रढयितुं तस्य जनिलयप्रकारमाह -- संरुन्धत इति ॥ द्विजा अपि, अन्तः हृदये, निभृतं निश्चलं यथा तथा । यं वायुं संरुन्धते निबध्नन्ति, प्राणायामादिनेति भावः । कीटानां क्रिमीणाम् । 'क्रिमयः कीटाः' इति हलायुधः । सरीसृपाणां सर्पाणामपि । 'चक्री व्याळस्सरीसृपः' इत्यमरः । यमन्नमाहुः ब्रुवन्ति । 'ब्रुवः पञ्चानामादित आहो ब्रुवः' (पा. सू. ३.४.८४) इति ब्रूतेराहादेशः । यः गन्धवाहः । 'गन्धवाहानिलाशुगाः' इत्यमरः । शिथिलानि यानि जीर्णानि शूर्पाणि प्रस्फोटनानि वेणुनिर्मिता नीरन्ध्राः कटविशेषा इत्यर्थः । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः । तेषां परिभ्रमैः वीजनैः यो जायते, असावपि वायुः कथं ओजायते ओजस्वीवाचरति । आयुधमात्ररहितद्विजनियम्यस्य वायोः पराक्रमे को वा चित्रं नाप्नुयादिति भावः । अस्मदनुकूले वायौ आग्रहो न कार्य इत्याशयेनाह ॥ अथवेति ॥ अथवा एतस्मिन् मरुति, अस्माभिरेतावन्नाभिनिवेष्टव्यं आग्रहो न कार्यः । अयमस्माकं सर्वथापि
सर्वप्रकारैरपि । आशुगेषु शरेषु । 'आशुगौ वायुविशिखौ' इत्यमरः । अनलज्वालानां सन्धुक्षणे संयोजने अनुकूलः प्रयोजकः खलु । सङ्ग्रही नावसीदतीति शास्त्रादिति भावः । सदा गमनशीलस्य वायोर्निरोधः क्रियत इत्याह ॥ यश्चेति ॥ अवकाशेषु अनावृतप्रदेशेषु छिद्रेषु वा, यः पवनश्चेष्टते वाति । ये च वा एनं वायुं समाश्रितास्सन्तो वर्तन्त इति शेषः । नीरन्ध्रे निरवकाशे छिद्ररहित इति यावत् । शरपञ्जरे तान् सर्वानपि नि