2023-07-18 04:39:06 by Bharadwajraki
This page has not been fully proofread.
६५
अथवा
यश्चेष्टतेऽवकाशेषु ये चाप्येनं समाश्रिताः ।
निरुन्धीमहि तान् सर्वान् नीरन्ध्रे शरपञ्जरे ॥ ३७ ॥
-
[commentary]
न्वयः । अत एव सर्वतो गच्छन् प्र
—
सर्पकीटादिग्रास
अस्मदनुकूले वायौ आग्रहो न कार्य इत्याशयेनाह ॥ अथवेति ॥ अथवा एत-
स्मिन् मरुति, अस्माभिरेतावन्नाभिनिवेष्टव्यं आग्रहो न कार्यः । अयमस्माकं सर्वथापि
सर्वप्रकारैरपि । आशुगेषु शरेषु । 'आशुगौ वायुविशिखौ' इत्यमरः । अनल-
ज्वालानां सन्धुक्षणे संयोजने अनुकूल: प्रयोजकः खलु । सङ्ग्रही नावसीदतीति
शास्त्रादिति भावः । सदा गमनशीलस्य वायोर्निरोधः क्रियत इत्याह ॥ यश्चेति ॥
अवकाशेषु अनावृतप्रदेशेषु छिद्रेषु वा, यः पवनश्चेष्टते वाति । ये च वा एनं
वायुं समाश्रितास्सन्तो वर्तन्त इति शेषः । नीरन्ध्रे निरवकाशे छिद्ररहित इति
यावत् । शरपञ्जरे तान् सर्वानपि निरन्धीमहि निरोवं कुर्मः । निपूर्वाद्रुन्धतेर्लिंङ्' ।
उपायविदामस्माकं कस्य वा निग्रहो न सुकर इति भावः । एतस्मिन्नवसरे केचन
क्षुद्रदैत्या: वायुं बबाघिर इत्याह ॥ इतीति ॥ इतीत्थं कतिपये केचन दैत्याः
1. ' रुधिर्-आवरणे' रौधादिकः प्रथमो धातुः ।
N - 9