This page has been fully proofread twice.

बाणः, अतिबली च बलिः, आलक्ष्य वक्त्राणि परस्परं, ईषदिव स्मयमानाः, विस्मयमानाः पराक्रमैः विबुधानामिदमुचिरे । हन्त कथममरा अपि पराक्रमन्ते, तेषु च दूत्योचितसंचारमन्थरश्श्वा मातरिश्वा ।
 
संरुन्धते निभृतमन्तरपि द्विजा यं,
अन्नं यमाहुरपि कीटसरीसृपाणाम् ।
यो जायते शिथिलशूर्पपरिभ्रमैर-
प्योजायते कथमसावपि गन्धवाहः ॥ ३६ ॥
 
[commentary]
 
परोक्षे लिट् । यस्मिन् सति सर्वोऽपि जन्तुस्सञ्चरितुं समर्थो भवति स्वसञ्चारे तस्य सामर्थ्यं कियदिति वक्तव्यमिति भावः । एवं समरोद्योगिनमालोक्य वायुमसुरा जहसुरित्याशयेनाह ॥ यावदिति ॥ गन्धवाहः पवनः, यावदित्थं, अस्पन्दत पर्यचेष्टत तावदावर्तितानि सर्वतो विन्यस्तानि घूर्णितानि वा, लोचनानि येन सः । विरोचनः असुरः, सङ्ग्रामे एका मुख्या रुचिर्यस्य सः नमुचिः । यद्वा सङ्ग्रामे एकस्मिन्रुचिरभिरतिर्यस्य स तथाभूतः असुरः नमुचिः । प्रकटितः समरे आडम्बरः बृंहितं तूर्यरवो वा यस्य स तथोक्तः । "आडम्बरस्तूर्यरवे गजेन्द्राणाञ्च गर्जिते" इत्यमरः । शम्बरः असुरसेनाध्यक्षः । सावष्टम्भः सगर्वः । "दर्पोऽवलेपोऽवष्टम्भः" इति विश्वः । जम्भः जम्भासुरः । समरमदेन उल्बणः स्फुटः प्रसिद्ध इति यावत् । "स्फुटं प्रव्यक्तमुल्बणम्" इत्यमरः । बाणः, अतिबलीबलिश्च, परस्परं वक्त्राणि आलक्ष्य, ईषदल्पं, स्मयमानाः स्मितं कुर्वाणा इव, विबुधानां वाय्वादीनां, पराक्रमैर्विस्मयमानाः आश्चर्यं प्राप्नुवन्तस्सन्तः, इदं वक्ष्यमाणमूचिरे जगदुः । 'वच परिभाषण' इति धातोः कर्तरि लिट् । "वचिस्वपि" (पा. सू. ६-१-१५) इत्यादिना सम्प्रसारणम् । शापग्रस्तस्यामी भृत्या अपि, सुराः पराक्रमन्ते चेत् कस्य वा न विस्मय इति भावः ॥ हन्तेति ॥ हन्तेत्याश्चर्ये । अमरा अपि, पराक्रमन्ते पराक्रमं कुर्वन्ति । "उपपराभ्याम्" (पा.सू. १.३.३९) इति क्रमेरात्मनेपदम् । तेष्वमरेषु मातरिश्वा च वायुस्तु, दूतस्य भागो दूत्यम् । "दूतस्य [^१] भागकर्मणी" (पा.सू. ४.४.१२०) इति
यत्प्रत्ययः । "स्यात् सन्देशहरो दूतो दूत्यं तद्भागकर्मणोः" इत्यमरः । तस्य उचितः अनुरूपः यस्सञ्चारः, तेन मन्थरः मांसलः, श्वा, पराक्रमत इति विपरिणामेना-
 
[^१] भागोंऽशः, "भवे च्छन्दसि" (पा.सू. ४.४.११०) इत्यारभ्य विहितः "अग्राद्यत्" (पा. सू. ४.४.११६) इत्यतोऽनुवृत्तः यत्प्रत्ययः विधीयते ॥