2023-07-16 07:43:19 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  बाणः, अतिबली च बलिः, आलक्ष्य वक्त्राणि परस्परं, ईषदिव स्मय-
  
  
  
  मानाः, विस्मयमानाः पराक्रमैः विबुधानामिदमुचिरे । हन्त कथममरा
  
  
  
   अपि पराक्रमन्ते, तेषु च दूत्योचितसंचारमन्थरश्श्वा मातरिश्वा ।
  
  
  
  
  
  
  
   
  
  
  
  संरुन्धते निभृतमन्तरपि द्विजा यं,
  
  
  
   
  
  
  
  
  
  
  
  अन्नं यमाहुरपि कीटसरीसृपाणाम् ।
  
  
  
  
  
  
  
  यो जायते शिथिलशूर्पपरिभ्रमैर-
  
  
  
  
  
  
  
  प्योजायते कथमसावपि गन्धवाहः ॥ ३६ ॥
  
  
  
   
  
  
  
  :
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  परोक्षे लिट् । यस्मिन् सति सर्वोऽपि जन्तुस्सञ्चरितुं समर्थो भवति स्वसञ्चारे तस्य
  
  
  
   सामर्थ्ययं कियदिति वक्तव्यमिति भावः । एवं समरोद्योगिनमालोक्य वायुमसुरा जहसु-
  
  
  
  रित्याशयेनाह ॥ यावदिति ॥ गन्धवाह:हः पवनः, यावदित्थं, अस्पन्दत पर्यचेष्टत
  
  
  
   तावदावर्तितानि सर्वतो विन्यस्तानि घूर्णितानि वा, लोचनानि येन सः । विरोचनः
  
  
  
   असुरः, सङ्ग्रामे एका मुख्या रुचिर्यस्य सः नमुचिः । यद्वा सङ्ग्रामे एकस्मिन्
  
  
  
  रुचिरभिरतिर्यस्य स तथाभूतः असुर नमुचि:चिः । प्रकटितः समरे आडम्बररः बृंहित
  
  
  
  तं तूर्यरवो वा यस्य स तथोक्तः । "आडम्बरस्तूर्यरवे गजेन्द्राणाञ्च गर्जिते "
  
  
  
  " इत्यमरः । शम्बर:रः असुरसेनाध्यक्ष:षः । सावष्टम्भ:भः सगर्व:वः । "दर्पोऽवलेपोऽवष्टम्भ:"
  
  
  
  भः" इति विश्वः । जम्भ:भः जम्भासुरः । समरमदेन उल्वबणः स्फुट:टः प्रसिद्ध इति
  
  
  
   यावत् । "स्फुटं प्रव्यक्तमुल्बणम्" इत्यमरः । बाणः, अतिबलीब लिश्च, परस्परं वक्त्राणि
  
  
  
   आलक्ष्य, ईषदल्पं, स्मयमानाः स्मितं कुर्वाणा इव, विबुधानां वाय्वादीनां, परा-
  
  
  
  क्रमैर्विस्मयमानाः आश्चर्यं प्राप्नुवन्तस्सन्तः, इदं वक्ष्यमाणमूचिरे जगदुः । 'वच
  
  
  
   परिभाषण' इति धातोः कर्तरि लिट् । "वचिस्वपि" (पा. सू. ६-१-१५) इत्यादिना
  
  
  
   सम्प्रसारणम् । शापग्रस्तस्यामी भृत्या अपि, सुराः पराक्रमन्ते चेत् कस्य वा न विस्मय
  
  
  
   इति भावः ॥ हन्तेति ॥ हन्तेत्याश्चर्ये । अमरा अपि, पराक्रमन्ते पराक्रमं कुर्वन्ति ।
  
  
  
   "उपपराभ्याम्" (पा.सू. 1-3-39१.३.३९) इति क्रमेरात्मनेपदम् । तेष्वमरेषु मातरिश्वा च
  
  
  
   वायुस्तु, दूतस्य भागो दूत्यम् । "दूतस्य[^१] भागकर्मणी" (पा.सू. 4-4-120४.४.१२०) इति
  
  
  
  
  
  
  
  यत्प्रत्ययः । "स्यात् सन्देशहरो दूतो दूत्यं तद्भागकर्मणोः" इत्यमरः । तस्य उचित:
  
  
  
  तः अनुरूपः यस्सञ्चारः, तेन मन्थर:रः मांसल:लः, श्वा, पराक्रमत इति विपरिणामेना-
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] भागोंऽश:शः, "भवे च्छन्दसि" (पा.सू. 44110४.४.११०) इत्यारभ्य विहितः "अप्रा-
  
  
  
  ग्राद्यत्" (पा. सू. 44-116४.४.११६) इत्यतोऽनुवृत्तः यत्प्रत्ययः विधीयते ॥