2023-06-05 16:39:48 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
बाणः, अतिबली च बलिः, आलक्ष्य वक्त्राणि परस्परं, ईषदिव स्मय-
मानाः, विस्मयमानाः पराक्रमैः विबुधानामिदमुचिरे । हन्त कथममरा
अपि पराक्रमन्ते, तेषु च दूत्योचितसंचारमन्थरश्वा मातरिश्वा ।
संरुन्धते निभृतमन्तरपि द्विजा यं,
अन्नं यमाहुरपि कीटसरीसृपाणाम् ।
यो जायते शिथिलशूर्पपरिभ्रमैर-
प्योजायते कथमसावपि गन्धवाहः ॥ ३६ ॥
:
परोक्षे लिट् । यस्मिन् सति सर्वोऽपि जन्तुस्सञ्चरितुं समर्थो भवति स्वसञ्चारे तस्य
सामर्थ्य कियदिति वक्तव्यमिति भावः । एवं समरोद्योगिनमालोक्य वायुमसुरा जहसु-
रित्याशयेनाह ॥ यावदिति ॥ गन्धवाह: पवनः, यावदित्थं, अस्पन्दत पर्यचेष्टत
तावदावर्तितानि सर्वतो विन्यस्तानि घूर्णितानि वा, लोचनानि येन सः । विरोचनः
असुरः, सङ्ग्रामे एका मुख्या रुचिर्यस्य सः नमुचिः । यद्वा सङ्ग्रामे एकस्मिन्
रुचिरभिरतिर्यस्य स तथाभूतः असुर नमुचि: । प्रकटितः समरे आडम्बर बृंहित
तूर्यरवो वा यस्य स तथोक्तः । "आडम्बरस्तूर्यरवे गजेन्द्राणाञ्च गर्जिते "
इत्यमरः । शम्बर: असुरसेनाध्यक्ष: । सावष्टम्भ: सगर्व: । "दर्पोऽवलेपोऽवष्टम्भ:"
इति विश्वः । जम्भ: जम्भासुरः । समरमदेन उल्वणः स्फुट: प्रसिद्ध इति
यावत्। "स्फुटं प्रव्यक्तमुल्बणम्" इत्यमरः । बाणः, अतिबलीब लिश्च, परस्परं वक्त्राणि
आलक्ष्य, ईषदल्पं, स्मयमानाः स्मितं कुर्वाणा इव, विबुधानां वाय्वादीनां, परा-
क्रमैर्विस्मयमानाः आश्चर्यं प्राप्नुवन्तस्सन्तः, इदं वक्ष्यमाणमूचिरे जगदुः । 'वच
परिभाषण' इति धातोः कर्तरि लिट् । "वचिस्वपि" (पा. सू. ६-१-१५) इत्यादिना
सम्प्रसारणम् । शापग्रस्तस्यामी भृत्या अपि, सुराः पराक्रमन्ते चेत् कस्य वा न विस्मय
इति भावः ॥ हन्तेति ॥ हन्तेत्याश्चर्ये । अमरा अपि, पराक्रमन्ते पराक्रमं कुर्वन्ति ।
"उपपराभ्याम्" (पा.सू. 1-3-39) इति क्रमेरात्मनेपदम् । तेष्वमरेषु मातरिश्वा च
वायुस्तु, दूतस्य भागो दूत्यम् । "दूतस्य भागकर्मणी" (पा.सू. 4-4-120) इति
यत्प्रत्ययः । "स्यात् सन्देशहरो दूतो दूत्यं तद्भागकर्मणोः" इत्यमरः । तस्य उचित:
अनुरूपः यस्सञ्चारः, तेन मन्थर: मांसल:, श्वा, पराक्रमत इति विपरिणामेना-
1. भागोंऽश:, "भवे च्छन्दसि" (पा.सू. 44110) इत्यारभ्य विहितः "अप्रा-
यत्" (पा. सू. 44-116) इत्यतोऽनुवृत्तः यत्प्रत्ययः विधीयते ॥