2023-06-05 16:38:47 by ambuda-bot
This page has not been fully proofread.
vii
following extract from the introductory canto of his Ganga-
vataraṇa may be perused here with advantage.
मुनिरस्ति भरद्वाज: ख्यात स्त्रिभुवनेष्वपि ।
अन्नैर्यस्य जहौ रामोऽप्यरण्यभ्रमणश्रमम् ॥ ३८ ॥
तस्यान्वये महत्यासीत् क्षीरोद इव चन्द्रमाः ।
श्रीकण्ठचरणासक्तः श्रीमानप्पयदीक्षितः ॥ ३९ ॥
अमोषणीयैरक्रय्यैरमूल्यैरमलीमसैः ।
यत्प्रबन्धैः शतेनैव भारती परिकर्मिता ॥ ४४ ॥
यं विद्म इति यद्ग्रन्थानभ्यस्यामोऽखिलानिति ।
यस्य शिष्याः स्म इति च लघते स्वं विपश्चितः ॥ ४५ ॥
नाकेऽपि सति देवानां माहात्म्यकलहे मिथः ।
वाद: शाम्यति यद्वाचि विन्यस्य निखिलं भरम् ॥ ४६ ॥
तत्समानप्रभावस्य तदनन्तरजन्मनः ।
आसीदाच्चादीक्षितस्य पुत्रो नारायणाध्वरी ॥ ४८ ॥
जयन्ति तनयास्तस्य पञ्च सौभ्रात्रशालिनः ।
गर्भदासा महेशस्य कवयश्च विपश्चितः ॥ ४९ ॥
तेषामहं द्वितीयोऽस्मि भूमिदेवीतनूभुवाम् ।
नीलकण्ठ इति ख्यातिं नीतः शम्भोः प्रसादतः ॥ ५० ॥
वार्तिकाभरणग्रन्थनिर्माणव्यक्तनैपुणः ।
श्रीवेङ्कटेश्वरमखी शिष्ये मय्यनुकम्पते ॥ ५१ ॥
कुर्वती श्रवणे वाणी कोमलां यस्य साहितीम् ।
कर्णपूरशिरीषेऽपि काठिन्यमिव पश्यति ॥ ५२ ॥
भान्ति शिष्याः पुरो यस्य पाणिविन्यस्तपुस्तकाः ।
तत्सूक्तिजाह्नवीपूरत्रासेनेव धृतप्लवाः ॥ ५३ ॥
(गङ्गावतरणम् - सर्ग० १)