2023-08-06 09:27:00 by Bharadwajraki
This page has been fully proofread twice.
पदातिजातं, अवरुन्धन् सेनापतीन्, परावर्तयन्नस्त्रशस्त्राणि, प्रभञ्जयन्नञ्जसैव जयध्वजान्, परिस्खलयन् महासुरानपि, संवर्त इव मारुतः समरसीमनि सर्वतोऽप्यक्रमेण पराचक्रमे । यावदित्थमस्पन्दत गन्धवाहः, तावदावर्तितलोचनो विरोचनः, सङ्ग्रामैकरुचिर्नमुचिः, प्रकटितसमराडम्बरः शम्बरः, सावष्टम्भो जम्भः, समरमदोल्बणो
[commentary]
सम्बाधेन, भ्रमन्ति यानि अभ्रसरिज्जलानि देवगङ्गोदकानि, तेषां निर्झरः प्रवाहः, तस्य झळझळेति यो घोषः ध्वनिः, तद्वद्भीषणेन झङ्कारेण मुखरितः शब्दितः नभसो विभागो यस्मिन् कर्मणि तत्तथा । युगविगमस्य युगात्ययस्य, उचितमनुरूपं, रूपं स्वभावः । "रूपं स्वभावे सद्वृत्तौ" इत्यमरः । आलम्ब्य आश्रित्य । आपन्नं विपदं प्राप्तं । "आपन्न आपत्प्राप्तस्स्यात्" इत्यमरः । यत्सुराणां बलं तस्मिन् आपतन् । अश्वीयं अश्वसमूहं । "बृन्दे त्वश्वीयमाश्ववत्" इत्यमरः । जीर्णपर्णमिव जरच्छुष्कपत्रमिव, दिक्षु विदिक्षु दिङ्मध्येषु । "दिशोर्मध्ये विदिक् स्त्रियाम्" इत्यमरः । विघूर्णयन्
भ्रामयन् । आरण्यकमरण्ये भवम् । "अरण्याद्वुञ्" (पा. सू. ४.२.१२९) इति वुञ्प्रत्ययः । तरुकाण्डानां प्रकाण्डानां, षण्डं सङ्घमिव, रथानां षण्डं सङ्घं । "षण्डं क्लीबे समूहे च" इति विश्वः । विघूर्णयन् भ्रामयन् । मदोद्दण्डान् मदोत्कटान्, वेतण्डान् गजान्, उपलानां प्रस्तराणां खण्डानिव शकलानीव, अवकिरन् विक्षिपन् । "[^१]कुकॄ विक्षेपे" इत्यस्माद्धातोर्लटश्शत्रादेशः, 'उगिदचाम्' (पा. सू. ७.१.७०) इति नुम् । पदातीनां जातं सङ्घं । अन्धीकुर्वन्[^२] अनन्धं अन्धं कुर्वन् । सेनापतीन्
सेनाध्यक्षान् अवरुन्धन् परावर्तयन् निवर्तयन् । अस्त्राणि च शस्त्राणि आयुधानि । "आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियाम्" इत्यमरः । अञ्जसा झडित्येव । "द्राग्झडित्यञ्जसाह्नाय" इत्यमरः । जयध्वजांश्च प्रभञ्जयन् भग्नान् कुर्वन् । महासुरानपि परिस्खलयन् पातयन् । संवर्त इव प्रळय इव । "संवर्तः प्रळयः कल्पः क्षयः" इत्यमरः । समरसीमनि युद्धाङ्गणे, सर्वतः परितोऽपि । अक्रमेण क्रमं विहायेति तात्पर्यार्थः । पराचक्रमे सञ्चचारेत्यर्थः । पराक्रमं चकारेति वा । परापूर्वात्क्रमतेः [^३]कर्तरि
[^१] "कृकॄ = विक्षेपे" -- अयं धातुः तौदादिकः । "अथ परस्मैपदिनः सप्त" -- इत्यारभ्य पठितेषु षष्ठः ॥ "कॄ=हिंसायाम्" -- इत्यन्यः क्रैयादिकः परस्मैपदिष्वेकादशः ।
[^२] "क्रमु = पादविक्षेपे" अयं भौवादिकः । "वृत्तिसर्गतायनेषु क्रमः" "उपपराभ्याम्" (पा. सू. १.३.३८, ३९) इत्यात्मनेपदम् ॥
[^३] च्विप्रत्ययान्तोऽयम् "कृभ्वस्तियोगे संपद्यकर्तरि च्विः" (पा.सू. ५.४.५०) "अभूततद्भाव इति वाच्यम्" -- इत्यनुशासनेन । "अस्य च्चौ" (पा.सू. ७.४.३२) इतीत्वम्॥
[commentary]
सम्बाधेन, भ्रमन्ति यानि अभ्रसरिज्जलानि देवगङ्गोदकानि, तेषां निर्झरः प्रवाहः, तस्य झळझळेति यो घोषः ध्वनिः, तद्वद्भीषणेन झङ्कारेण मुखरितः शब्दितः नभसो विभागो यस्मिन् कर्मणि तत्तथा । युगविगमस्य युगात्ययस्य, उचितमनुरूपं, रूपं स्वभावः । "रूपं स्वभावे सद्वृत्तौ" इत्यमरः । आलम्ब्य आश्रित्य । आपन्नं विपदं प्राप्तं । "आपन्न आपत्प्राप्तस्स्यात्" इत्यमरः । यत्सुराणां बलं तस्मिन् आपतन् । अश्वीयं अश्वसमूहं । "बृन्दे त्वश्वीयमाश्ववत्" इत्यमरः । जीर्णपर्णमिव जरच्छुष्कपत्रमिव, दिक्षु विदिक्षु दिङ्मध्येषु । "दिशोर्मध्ये विदिक् स्त्रियाम्" इत्यमरः । विघूर्णयन्
भ्रामयन् । आरण्यकमरण्ये भवम् । "अरण्याद्वुञ्" (पा. सू. ४.२.१२९) इति वुञ्प्रत्ययः । तरुकाण्डानां प्रकाण्डानां, षण्डं सङ्घमिव, रथानां षण्डं सङ्घं । "षण्डं क्लीबे समूहे च" इति विश्वः । विघूर्णयन् भ्रामयन् । मदोद्दण्डान् मदोत्कटान्, वेतण्डान् गजान्, उपलानां प्रस्तराणां खण्डानिव शकलानीव, अवकिरन् विक्षिपन् । "[^१]
सेनाध्यक्षान् अवरुन्धन् परावर्तयन् निवर्तयन् । अस्त्राणि च शस्त्राणि आयुधानि । "आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियाम्" इत्यमरः । अञ्जसा झडित्येव । "द्राग्झडित्यञ्जसाह्नाय" इत्यमरः । जयध्वजांश्च प्रभञ्जयन् भग्नान् कुर्वन् । महासुरानपि परिस्खलयन् पातयन् । संवर्त इव प्रळय इव । "संवर्तः प्रळयः कल्पः क्षयः" इत्यमरः । समरसीमनि युद्धाङ्गणे, सर्वतः परितोऽपि । अक्रमेण क्रमं विहायेति तात्पर्यार्थः । पराचक्रमे सञ्चचारेत्यर्थः । पराक्रमं चकारेति वा । परापूर्वात्क्रमतेः [^३]कर्तरि
[^१] "