This page has been fully proofread once and needs a second look.

प्रथमाश्वांसः
 
पदातिजातं, अवरुन्धन् सेनापतीन्, परावर्तयन्न स्त्रशस्त्राणि, प्रभञ्ज-
यन्नञ्जसँसैव जयध्वजान्, परिस्खलयन् महासुरानपि, संवर्त इव
मारुतः समरसीमनि सर्वतोऽप्यक्रमेण पराचक्रमे । यावदित्थ-
मस्पन्दत गन्धवाहः, तावदावर्तितलोचनो विरोचनः, सङ्ग्रामैकरुचि-
र्नमुचिः, प्रकटितस मराडम्बरः शम्बरः, सावष्टम्भो जम्भः, समरमदोल्णो

 
[commentary]
 
सम्बाघेधेन, भ्रमन्ति यानि अभ्रसरिज्जलानि देवगङ्गोदकानि, तेषां निर्झर :रः प्रवाहः,
तस्य झळझळेति यो घोष:षः ध्वनि:निः, तद्वद्भीषणेन झङ्कारेण मुखरित:तः शब्दितः
नभसो विभागो यस्मिन् कर्मणि तत्तथा । युगविगमस्य युगात्ययस्य, उचितमनुरूपं,
रूपं स्वभावः । "रूपं स्वभावे सद्वृत्तौ " इत्यमरः । आलम्ब्य आश्रित्य । आपन्नं
विपदं प्राप्तं । "आपन्न आपत्प्राप्तस्स्यात्" इत्यमरः । यत्सुराणां बलं तस्मिन् आपतन् ।
अश्वीयं अश्वसमूहं । "बृन्दे त्वश्वीयमाश्ववत्" इत्यमरः । जीर्णपर्णमिव जरच्छुष्कपत्र-
मिव, दिक्षु विदिक्षु दिङ्मध्येषु । "दिशोर्मध्ये विदिक् स्त्रियाम्" इत्यमरः । विघूर्णयन्

भ्रामयन् । आरण्यकमरण्ये भवम् । "अरण्याद्वुञ्" (पा. सू. 4-2-129४.२.१२९) इति
वुञ्प्रत्ययः । तरुकाण्डानां प्रकाण्डानां, षण्डं सङ्घमिव, रथानां षण्डं सङ्घं । "षण्डं
क्लीबे समूहे च" इति विश्वः । विघूर्णयन् भ्रामयन् । मदोद्दण्डान् मदोत्कटान्,
वेतण्डान् गजान्, उपलानां प्रस्तराणां खण्डानिव शकलानीव, अवकिरन् विक्षिपन् ।
""
"[^१]कु विक्षेपे" इत्यस्माद्धातोर्लटश्शत्रा देशः, 'उगिदचाम्' (पा. सू. 7-1-70७.१.७०) इति
नुम् । पदातीनां जातं सङ्घं । अन्धी कुर्वन्[^२] अनन्धं अन्धं कुर्वन् । सेनापतीन्

सेनाध्यक्षान् अवरुन्धन् परावर्तयन् निवर्तयन् । अस्त्राणि च शस्त्राणि आयुधानि ।
"आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियाम्" इत्यमरः । अञ्जसा झडित्येव । "द्राम्ग्-
डित्यञ्जसाहाह्नाय" इत्यमरः । जयध्वजांश्च प्रभञ्जयन् भग्नान् कुर्वन् । महासुरानपि
परिस्खलयन् पातयन् । संवर्त इव प्रळय इव । "संवर्तः प्रळय:यः कल्पः क्षय : "
यः" इत्यमरः । समरसीमनि युद्धाङ्गणे, सर्वतः परितोऽपि । अक्रमेण क्रमं विहायेति
तात्पर्यार्थः । पराचक्रमे सञ्चचारेत्यर्थः । पराक्रमं चकारेति वा । परापूर्वात्क्रमतेः '[^३]कर्तरि
 
1
 
1.

 
[^१]
"कृ = विक्षेपे" -- अयं धातुः तौदा दिकः । "अथ परस्मैपदिनः सप्त" -- इत्यारभ्य
पठितेषु षष्ठः ॥ "कृकॄ=हिंसायाम् " — इत्यन्य: कै" -- इत्यन्यः क्रैयादिकः परस्मैपदिष्वेकादशः ।
2.
 

 
[^२]
"क्रमु = पादविक्षेपे" अयं भौवादिकः । "वृत्तिसर्गतायनेषु क्रम:मः" "उप-
पराभ्याम्" (पा. सू. 1.3-38, 39१.३.३८, ३९) इत्यात्मनेपदम् ॥
 
पराभ्याम्
 
3.

 
[^३] च्
विप्रत्ययान्तोऽयम् " कृत्रभ्वस्तियोगे संपद्यकर्तरि च्चि: विः" (पा.सू. 5-4-50 ५.४.५०)
"अभूततद्भाव इति वाच्यम्" -- इत्यनुशासनेन । "अस्य च्चौ" (पा.सू. 7-4-32७.४.३२) इतीत्वम्॥
 
""