2023-08-06 09:21:57 by Bharadwajraki
This page has been fully proofread twice.
वोद्दण्डं, अतिसम्भ्रमभ्रामितपांसुमांसलतृणपूलसङ्घसङ्गतकङ्कगृध्रवायसादिविहङ्गमं, अतिविशङ्कटशङ्करशिरोघटितविकटजटाजूटसङ्कटभ्रमदभ्रसरिज्जलनिर्झरझळझळघोषभीषण-
झङ्का-रमुखरितनभोविभागं, युगविगमोचितं रूपं, आपतन्नापन्नसुरबले, विघूर्णयन् जीर्णपर्णमिव दिक्षु विदिक्षु चाश्वीयं, [^१]अवचूर्णयन् रथषण्डमारण्यमिव तरुकाण्डं षण्डं, अवकिरन्नुपलखण्डानिव मदोच्चण्डानपि वेतण्डान्, अन्धीकुर्वन्
[commentary]
लत्वे रूपम् । शत्रुकरगृहीतः को वा पीडां न प्राप्नुयादिति भावः । स्वमित्रस्याग्नेरसुरकृतां पीडामसहमानो वायुः स्वमित्रापराधिनस्तानसुरान् बाधितुं प्रळयोचितं रूपमादाय ववावित्याह -- तत इति ॥ ततस्समिति युद्धे । "समवायः स्त्रियां संयत्समित्याजिसमिद्युषःधः" इत्यमरः । असुरभटैराहितं अनुष्ठितं, कृतमिति यावत् । सख्युः आशुशुक्षणेरग्नेः । "शिखावानाशुशुक्षणिः" इत्यमरः । अत्याहितं भयमालक्ष्य "अत्याहितं महाभीतिः" इत्यमरः । क्षणेन क्षणात्, विभक्तिप्रतिरूपकमव्ययम् । अधिकेन वेगेन सज्जीभूय सन्नद्धो भूत्वा, सव्यापसव्यानि दक्षिणोत्तराणि मण्डलानि वलयान् सञ्चरन्, चण्डमतिदुस्सहं लाघवं शैघ्र्यं यस्मिन् कर्मणि तत्तथा चण्डलाघवं यथा तथा, उत्क्षिप्तः ऊर्ध्वदेशं प्रापितः, तरूणां काण्डानां स्कन्धापरपर्यायप्रकाण्डानां, षण्डं सङ्घो, यस्मिन् कर्मणि तत्तथा । आहिण्डमानाः, आङ्पूर्वकस्य[^२] "हिडि गतौ" इति धातोः कर्तरि लटश्शानच् । वलमानाः सञ्चरणस्वभावाः, ये उपलाः तत्खण्डानां शकलानां, ताण्डवेन नर्तनेन, उद्दण्डं दुस्सहं यथा तथा । अतिसम्भ्रमेण त्वरया, भ्रामितानि विघूर्णितानि, यानि पांसुभिर्मांसलानि, तृणानां पूलानि रज्जुसंवेष्टितपुञ्जानि । पाठान्तरे तृणानि पर्णानि च अथवा
तृणानि पूलानि कार्पासवस्त्राणि च । "पूलं सीरोपकरणे कार्पासवसनेऽप्यथ" इति नानार्थमाला । तेषां सङ्घेन, सङ्गताः कङ्कगृध्रवायसादयः विहङ्गमाः, यस्मिन्कर्मणि तत्तथा । अतिविशङ्कटं अतिपृथु । "विशङ्कटं पृथु बृहत्" इत्यमरः । शङ्करशिरसि घटितं ग्रथितं विकटं अमृदुलं यज्जटाजूटं जटावलयं, तस्मिन् सङ्कटेन
[^१] विघूर्णयन् -- इति व्याख्यापाठः ।
[^२] "हिडि गत्यनादरयोः" अयं धातुः -- "अथ टवर्गीयान्ताः शाड्यन्ताः अनुदात्तेतः षट्त्रिंशत्" -- इत्यारभ्य पठितेषु पंचदशः ॥
झङ्का
[commentary]
लत्वे रूपम् । शत्रुकरगृहीतः को वा पीडां न प्राप्नुयादिति भावः । स्वमित्रस्याग्नेरसुरकृतां पीडामसहमानो वायुः स्वमित्रापराधिनस्तानसुरान् बाधितुं प्रळयोचितं रूपमादाय ववावित्याह -- तत इति ॥ ततस्समिति युद्धे । "समवायः स्त्रियां संयत्समित्याजिसमिद्यु