2023-07-16 07:14:11 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ६२
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  वोद्दण्डं,
  
  
  
   
  
  
  
   अतिसम्भ्रमभ्ररामितपांसुमांसलतृणपूलसङ्घसङ्गतकङ्कगृध्रवाय-
  
  
  
  सादिविहङ्गमं, अतिविशङ्कटशङ्करशिरोघटितविकटजटाजूटसङ्कटभ्रमदभ्र-
  
  
  
  आलम्व्य
  
  
  
   
  
  
  
  सरिज्जलनिर्झरझळझळघोषभीषणझङ्का-रमुखरितनभोविभागं,
  
  
  
   युगविगमोचितं रूपं, आपतन्नापन्नसुरबले, विघूर्णयन् जीर्णपर्णमिव दिक्षु
  
  
  
   विदिक्षु चाश्वीयं, '[^१]अवचूर्णयन् रथषण्डमारण्यमिव तरुकाण्डं षण्डं,
  
  
  
   अवकिरन्नुपलखण्डानिव मदोच्चण्डानपि वेतण्डान्, अन्धीकुर्वन्
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  लत्वे रूपम् । शत्रुकरगृहीतः को वा पीडां न प्राप्नुयादिति भावः । स्वमित्रस्याग्ने
  
  
  
  रसुरकृतां पीडामसहमानो वायुः स्वमित्रापराधिनस्तानसुरान् बाधितुं प्रळयोचितं
  
  
  
   रूपमादाय बववा वित्याह –-- तत इति ॥ ततस्समिति युद्धे । "समवायः स्त्रियां
  
  
  
   संयत्समित्याजिस मिमिद्युषः" इत्यमरः । असुरभटैराहितं अनुष्ठितं, कृतमिति यावत् ।
  
  
  
   सख्युः आशुशुक्षणेरमे: । " ग्नेः । "शिखावानाशुशुक्षणि: णिः" इत्यमरः । अत्याहितं भयमा-
  
  
  
  लक्ष्य "अत्याहितं महाभीति : तिः" इत्यमरः । क्षणेन क्षणात्, विभक्तिप्रतिरूपक-
  
  
  
  मव्ययम् । अधिकेन वेगेन सज्जीभूय सन्नद्धो भूत्वा, सव्यापसव्यानि दक्षिणोत्त-
  
  
  
  राणि मण्डलानि वलयान् सञ्चरन्, चण्डमतिदुस्सहं लाघवं शैघ्रर्यं यस्मिन् कर्मणि
  
  
  
   तत्तथा चण्डलाघवं यथा तथा, उत्क्षिप्तः ऊर्ध्वदेशं प्रापितः, तरूणां काण्डानां
  
  
  
   स्कन्धापरपर्यायप्रकाण्डानां, षण्डं सङ्घो, यस्मिन् कर्मणि तत्तथा । आहिण्डमानाः,
  
  
  
   आङ्पूर्वकस्य±[^२] "हिडि गतोतौ" इविति धातोः कर्तरि लटश्शानच् । वलमानाः सञ्च-
  
  
  
  रणस्वभावाः, ये उपलाः तत्खण्डानां शकलानां, ताण्डवेन नर्तनेन, उद्दण्डं दुस्सहं
  
  
  
   यथा तथा । अतिसम्भ्रमेण त्वरया, भ्रामितानि विघूर्णितानि, यानि पांसुभिर्मामांसलानि,
  
  
  
   तृणानां पूलानि रज्जुसंवेष्टितपुञ्जानि । पाठान्तरे तृणानि पर्णानि च अथवा
  
  
  
  
  
  
  
  तृणानि पूलानि कार्पासवस्त्राणि च । "पूलं सीरोपकरणे कार्पासवसनेऽप्यथ"
  
  
  
   इति नानार्थमाला । तेषां सङ्घघेन, सङ्गताः कङ्कगृध्रवायसादयः विहङ्गमाः, यस्मिन्
  
  
  
  कर्मणि तत्तथा । अतिविशङ्कटं अतिपृथु । "विशङ्कटं पृथु बृहत्" इत्यमरः ।
  
  
  
   शङ्करशिरसि घटितं अग्रथितं विकटं अमृदुलं यज्जटाजूटं जटावलयं, तस्मिन् सङ्कटेन
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [^१] विघूर्णयन् -
  
  
  
   
  
  
  
  1. विघूर्णयन्- इति व्याख्यापाठः ।
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] "हिडि गत्यनादरयोः" अयं धातुः -- "अथ टवर्गीयान्ताः शाब्यन्ता:ड्यन्ताः अनुदात्तेत:
  
  
  
  तः षट्त्रिंशत्" –-- इत्यारभ्य पठितेषु पंचदशः ॥