2023-06-05 16:39:47 by ambuda-bot
This page has not been fully proofread.
६२
नीलकण्ठविजये सव्याख्याने
वोद्दण्डं,
अतिसम्भ्रमभ्रमितपांसुमांसलतृणपूलसङ्घसङ्गतकङ्कगृध्रवाय-
सादिविहङ्गमं, अतिविशङ्कटशङ्करशिरोघटितविकटजटाजूटसङ्कटभ्रमदभ्र-
आलम्व्य
सरिज्जलनिर्झरझळझळघोषभीषणझङ्कारमुखरितनभोविभागं,
युगविगमोचितं रूपं, आपतन्नापन्नसुरबले, विघूर्णयन् जीर्णपर्णमिव दिक्षु
विदिक्षु चावीयं, 'अवचूर्णयन् रथषण्डमारण्यमिव तरुकाण्डं षण्डं,
अवकिरन्नुपलखण्डानिव मदोच्चण्डानपि वेतण्डान्, अन्धीकुर्वन्
लत्वे रूपम् । शत्रुकरगृहीतः को वा पीडां न प्राप्नुयादिति भावः । स्वमित्रस्याने
रसुरकृतां पीडामसहमानो वायुः स्वमित्रापराधिनस्तानसुरान् बाधितुं प्रळयोचितं
रूपमादाय बवा वित्याह – तत इति ॥ ततस्समिति युद्धे । "समवायः स्त्रियां
संयत्समित्याजिस मियुषः" इत्यमरः । असुरभटैराहितं अनुष्ठितं, कृतमिति यावत् ।
सख्युः आशुशुक्षणेरमे: । " शिखावानाशुशुक्षणि: " इत्यमरः । अत्याहितं भयमा-
लक्ष्य "अत्याहितं महाभीति : " इत्यमरः । क्षणेन क्षणात्, विभक्तिप्रतिरूपक-
मव्ययम् । अधिकेन वेगेन सज्जीभूय सन्नद्धो भूत्वा, सव्यापसव्यानि दक्षिणोत्त-
राणि मण्डलानि वलयान् सञ्चरन्, चण्डमतिदुस्सहं लाघवं शैघ्रयं यस्मिन् कर्मणि
तत्तथा चण्डलाघवं यथा तथा, उत्क्षिप्तः ऊर्ध्वदेशं प्रापितः, तरूणां काण्डानां
स्कन्धापरपर्यायप्रकाण्डानां, षण्डं सङ्घो, यस्मिन् कर्मणि तत्तथा । आहिण्डमानाः,
आङ्पूर्वकस्य± "हिडि गतो" इविति धातोः कर्तरि लटश्शानच् । वलमानाः सञ्च-
रणस्वभावाः, ये उपलाः तत्खण्डानां शकलानां, ताण्डवेन नर्तनेन, उद्दण्डं दुस्सहं
यथा तथा । अतिसम्भ्रमेण त्वरया, भ्रामितानि विघूर्णितानि, यानि पांसुभिर्मासलानि,
तृणानां पूलानि रज्जुसंवेष्टितपुञ्जानि । पाठान्तरे तृणानि पर्णानि च अथवा
तृणानि पूलानि कार्पासवस्त्राणि च । "पूलं सीरोपकरणे कार्पासवसनेऽप्यथ"
इति नानार्थमाला । तेषां सङ्घन, सङ्गताः कङ्कगृध्रवायसादयः विहङ्गमाः, यस्मिन्
कर्मणि तत्तथा । अतिविशङ्कटं अतिपृथु । "विशङ्कटं पृथु बृहत्" इत्यमरः ।
शङ्करशिरसि घटितं अथितं विकटं अमृदुलं यजटाजूटं जटावलयं, तस्मिन् सङ्कटेन
-
1. विघूर्णयन्- इति व्याख्यापाठः ।
2. "हिडि गत्यनादरयोः" अयं धातुः- "अथ टवर्गीयान्ताः शाब्यन्ता: अनुदात्तेत:
षट्त्रिंशत्" – इत्यारभ्य पठितेषु पंचदशः ॥