2023-08-06 09:16:51 by Bharadwajraki
This page has been fully proofread twice.
निर्वापयतैनमुदकुम्भैः, निक्षिपतैनमापूपिकानां वशे महानसेषु, मैवं मैवमुद्बोधयतैनमुचितैर्मुखमारुतैः, हस्ते कुरुत चैनमद्यैव दग्धुममरावतीं, "परित्यजत रे रे बालिशा बाडबोऽयं शिखां प्रदर्शयति" इति
परिहसन्तः, परिक्षिपन्तः, तर्जयन्तः, ताडयन्तश्च पलाययामासुरसुरभटाः एनम् । ततः समित्याहितमसुरभटैस्तदत्याहितमालक्ष्य सख्युराशुशुक्षणेः, क्षणेन सज्जीभूय भूयसा वेगेन सव्यापसव्यानि संचरन्मण्डलानि, चण्डलाघवोत्क्षिप्ततरुकाण्डषण्डमाहिण्डमानोपलखण्डताण्ड-
[commentary]
दुस्सहं ज्योतिस्तेजः, रोषेण ये हुङ्काराः, तैर्भयङ्करैः मुखमारुतैः, प्रशमय्य शान्तिं प्रापय्य, अस्याग्नेर्वाहनं मेषं, अग्रचरणग्राहं अग्रे चरणयोर्गृहीत्वा अस्याग्नेर्हस्ततलाच्छक्तिमायुधं बलादपहृत्य । अरे, क्रतुभुजाम् अन्नहरः अन्नहर्ता, हव्यं हुतं वहतीति हव्यवाहः इति नाम प्रसिद्धः, निर्जराणामपशदः नीचः । "निहीनोऽपशदो जाल्मः" इत्यमरः । लब्धः गृहीतः । तत्ततः अद्य एनमग्निमुदकुम्भैर्निर्वापयत शमयत, महानसेषु पाकगृहेषु । "समानौ रसवत्यां तु पाकस्थानं महानसम्" इत्यमरः । आपूपिकानां भक्ष्यकारिणां । "आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु'' इत्यमरः । वशे कामे विषये । "वश [^१]कान्तौ," इति धातोः पचादित्वादच्प्रत्ययः । एनमग्निं, निक्षिपत निवेशयत । मैवं मैवं एवं न कार्यमित्यर्थः । उचितैः प्रज्वलनानुकूलैः, मुखमारुतैरेनमग्निमुद्बोधयत प्रज्वलयत, अमरावतीमद्यैव दग्धुमेनमग्निं, हस्ते कुरुत । रे रे बालिशाः मूर्खाः । "हीनसम्बोधने तु रे" इत्यमरः । "अज्ञे मूढयथाजातमूर्खवैधेयवालिशाः" इति च । अयमेष बाडबः ब्राह्मणः, बडबासम्बन्धी च। "द्विजात्यग्रजन्मभूदेवबाडबाः" इत्यमरः । शिखां चूडां
अर्चिश्च, प्रदर्शयति, परित्यजत विसर्जयत इति, परिहसन्तः श्लेषभङ्ग्या परिहासं कुर्वन्तः, परिक्षिपन्तः आस्कन्दयन्तः, तर्जयन्तः भर्त्सयन्तः, ताडयन्तः प्रहरन्तश्चासुरभटाः, एनमग्निं, पलाययामासुः प्रधावयामासुरित्यर्थः । परेत्युपसर्गात्परस्य गत्यर्था[^२]यघाधातोर्हेतुमण्णिजन्तस्य यो रेफः तस्य "उपसर्गस्यायतौ" (पा.सू. ८.२.१९) इति
[^१] "वश = कान्तौ" (कान्तिरिच्छा) -- अयं धातुः आदादिकः । "अथ त्रयः परस्मैपदिनः -- इत्यारभ्य पठितेषु त्रिषु अन्तिमः ॥
[^२] "अय वय पय मयचयतयणय गतौ" -- इत्ययं धातुः भौवादिकः । "अथ रेवत्यन्ता अनुदात्तेतः" -- इत्यारभ्य पठितेषु सप्तत्रिंशद्धातुषु प्रथमः ॥ "हेतुमति च" (पा.सू. ३.१.२६) इत्यनेन प्रयोजककर्तरि णिच् ॥
परिहसन्तः, परिक्षिपन्तः, तर्जयन्तः, ताडयन्तश्च पलाययामासुरसुरभटाः एनम् । ततः समित्याहितमसुरभटैस्तदत्याहितमालक्ष्य सख्युराशुशुक्षणेः, क्षणेन सज्जीभूय भूयसा वेगेन सव्यापसव्यानि संचरन्मण्डलानि, चण्डलाघवोत्क्षिप्ततरुकाण्डषण्डमाहिण्डमानोपलखण्डताण्ड-
[commentary]
दुस्सहं ज्योतिस्तेजः, रोषेण ये हुङ्काराः, तैर्भयङ्करैः मुखमारुतैः, प्रशमय्य शान्तिं प्रापय्य, अस्याग्नेर्वाहनं मेषं, अग्रचरणग्राहं अग्रे चरणयोर्गृहीत्वा अस्याग्नेर्हस्ततलाच्छक्तिमायुधं बलादपहृत्य । अरे, क्रतुभुजाम् अन्नहरः अन्नहर्ता, हव्यं हुतं वहतीति हव्यवाहः इति नाम प्रसिद्धः, निर्जराणामपशदः नीचः । "निहीनोऽपशदो जाल्मः" इत्यमरः । लब्धः गृहीतः । तत्ततः अद्य एनमग्निमुदकुम्भैर्निर्वापयत शमयत, महानसेषु पाकगृहेषु । "समानौ रसवत्यां तु पाकस्थानं महानसम्" इत्यमरः । आपूपिकानां भक्ष्यकारिणां । "आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु'' इत्यमरः । वशे कामे विषये । "वश [^१]कान्तौ," इति धातोः पचादित्वादच्प्रत्ययः । एनमग्निं, निक्षिपत निवेशयत । मैवं मैवं एवं न कार्यमित्यर्थः । उचितैः प्रज्वलनानुकूलैः, मुखमारुतैरेनमग्निमुद्बोधयत प्रज्वलयत, अमरावतीमद्यैव दग्धुमेनमग्निं, हस्ते कुरुत । रे रे बालिशाः मूर्खाः । "हीनसम्बोधने तु रे" इत्यमरः । "अज्ञे मूढयथाजातमूर्खवैधेयवालिशाः" इति च । अयमेष बाडबः ब्राह्मणः, बडबासम्बन्धी च। "द्विजात्यग्रजन्मभूदेवबाडबाः" इत्यमरः । शिखां चूडां
अर्चिश्च, प्रदर्शयति, परित्यजत विसर्जयत इति, परिहसन्तः श्लेषभङ्ग्या परिहासं कुर्वन्तः, परिक्षिपन्तः आस्कन्दयन्तः, तर्जयन्तः भर्त्सयन्तः, ताडयन्तः प्रहरन्तश्चासुरभटाः, एनमग्निं, पलाययामासुः प्रधावयामासुरित्यर्थः । परेत्युपसर्गात्परस्य गत्यर्था[^२]य