2023-07-16 07:02:32 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  निर्वापयतैनमुदकुम्भःभैः, निक्षिपततैनमापूपिकानां वशे महानसेषु, मैवं
  
  
  
   मैवमुद्बोधयतैनमुचितैर्मुख मारुतैः, हस्ते कुरुत चैन मद्यैव दग्धुममरा-
  
  
  
  वतीं, "परित्यजत रे रे बालिशा बाडबोऽयं शिखां प्रदर्शयति" इति
  
  
  
  
  
  
  
  परिहसन्तः, परिक्षिपन्तः, तर्जयन्तः, ताडयन्तश्च पलाययामासुरसुर-
  
  
  
  भटाः एनम् । ततः समित्याहितमसुरभटैस्तदत्याहितमालक्ष्य सख्यु-
  
  
  
  राशुशुक्षणे:णेः, क्षणेन सज्जीभूय भूयसा वेगेन सव्यापसव्यानि संचरन्
  
  
  
  मण्डलानि, चण्डलाघवोत्क्षिप्ततरुकाण्डषण्ड माहिण्ड मानोपलखण्डताण्ड-
  
  
  
  ,
  
  
  
   
  
  
  
  9
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  दुस्सहं ज्योतिस्तेजः, रोषेण ये हुङ्काराः, तैर्भयङ्करैः मुखमारुतैः, प्रशमय्य शान्ति
  
  
  
  तिं प्रापय्य, अस्याग्नेर्वाहनं मेषं, अग्रचरणग्राहं अग्रे चरणयोर्गृहीत्वा अस्यामेग्नेर्हस्त-
  
  
  
  तलाच्छक्तिमायुधं बलादपहृत्य । अरे, क्रतुभुजाम् अन्नहर:रः अन्नहर्ता, हव्यं हुतं वह-
  
  
  
  तीति हव्यवाहः इति नाम प्रसिद्धः, निर्जराणामपशद:दः नीच:चः । "निहीनोऽपशदो
  
  
  
   जाल्म: मः" इत्यमरः । लब्धधः गृहीतः । तत्ततः अद्य एनमभिग्निमुदकुम्मैभैर्निर्वापयत
  
  
  
   शमयत, महानसेषु पाकगृहेषु । "समानौ रसवत्यां तु पाकस्थानं महानसम्"
  
  
  
   इत्यमरः । आपूपिकानां भक्ष्यकारिणां । "आपूपिक:कः कान्दविको भक्ष्यकार इमे
  
  
  
   त्रिषु'' इत्यमरः । वशे कामे विषये । "वश '[^१]कान्तो, तौ," इति धातोः पचादित्वादच-
  
  
  
  च्प्रत्ययः । एनमग्निं, निक्षिपत निवेशयत । मैत्रंवं मैवं एवं न कार्यमित्यर्थः । उचितैः
  
  
  
   प्रज्वलनानुकूलैः, मुखमारुतैरेनमग्निमुद्बोधयत प्रज्वलयत, अमरावतीमधैद्यैव दग्धुमेन-
  
  
  
  मग्निनिं, हस्ते कुरुत । रे रे बालिशा:शाः मूर्खा:खाः । "हीनसम्बोधने तु रे" इत्यमरः ।
  
  
  
   "अज्ञे मूढयथाजातमूर्खवैधेयवालिशा : शाः" इति च । अयमेष बाडव:बः ब्राह्मणः,
  
  
  
   बडबासम्बन्धी च। "द्विजात्यग्रजन्मभूदेवबाडचा:बाः" इत्यमरः । शिखां चूडां
  
  
  
  
  
  
  
  अर्चिश्वच, प्रदर्शयति, परित्यजत विसर्जयत इति, परिहसन्तः श्लेषभङ्गग्या परिहासं
  
  
  
   कुर्वन्तः, परिक्षिपन्तः आस्कन्दयन्तः, तर्जयन्तः भर्त्सयन्तः, ताडयन्तः प्रहरन्तश्चा-
  
  
  
  सुरभटाः, एनमग्निं, पलाययामासुः प्रधावयामासु रित्यर्थः । परेत्युपसर्गात्परस्य गत्यर्था-
  
  
  
  [^२]यघातोर्हेतुमण्णिजन्तस्य यो रेफः तस्य "उपसर्गस्यायतौ" (पा.सू. 8-2-19 ८.२.१९) इति
  
  
  
   
  
  
  
  ।
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] "वश = कान्तौ" ( कान्तिरिच्छा) -- अयं धातुः आदादिकः । "अथ त्रयः
  
  
  
   परस्मैपदिन: –नः -- इत्यारभ्य पठितेषु त्रिषु अन्तिमः ॥
  
  
  
   
  
  
  
  1
  
  
  
   
  
  
  
  2. " 
  
  
  
   
  
  
  
  [^२] "अय वय पय मयचयतयणय गतौ" –-- इत्ययं धातुः भौवादिकः । "अथ
  
  
  
   रेवत्यन्ता अनुदात्तेतः" –-- इत्यारभ्य पठितेषु सप्तत्रिंशद्धातुषु प्रथमः ॥ "हेतुमति च"
  
  
  
   (पा.सू. 3-1-26३.१.२६) इत्यनेन प्रयोजककर्तरि णिच् ॥