2023-06-05 16:39:47 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
निर्वापयतैनमुदकुम्भः, निक्षिपतनमापूपिकानां वशे महानसेषु, मैवं
मैवमुद्बोधयतैनमुचितैर्मुख मारुतैः हस्ते कुरुत चैन मद्यैव दग्धुममरा-
वतीं, "परित्यजत रे रे बालिशा बाडबोऽयं शिखां प्रदर्शयति इति
परिहसन्तः, परिक्षिपन्तः, तर्जयन्तः, ताडयन्तश्च पलाययामासुरसुर-
भटाः एनम् । ततः समित्याहितमसुरभटैस्तदत्याहितमालक्ष्य सख्यु-
राशुशुक्षणे:, क्षणेन सज्जीभूय भूयसा वेगेन सव्यापसव्यानि संचरन्
मण्डलानि, चण्डलाघवोत्क्षिप्ततरुकाण्डषण्ड माहिण्ड मानोपलखण्डताण्ड-
,
9
दुस्सहं ज्योतिस्तेजः, रोषेण ये हुङ्काराः, तैर्भयङ्करैः मुखमारुतैः, प्रशमय्य शान्ति
प्रापय्य, अस्याग्नेर्वाहनं मेषं, अग्रचरणग्राहं अग्रे चरणयोगृहीत्वा अस्यामेर्हस्त-
तलाच्छक्तिमायुधं बलादपहृत्य । अरे, क्रतुभुजाम् अन्नहर: अन्नहर्ता, हव्यं हुतं वह-
तीति हव्यवाहः इति नाम प्रसिद्धः, निर्जराणामपशद: नीच: । "निहीनोऽपशदो
जाल्म: " इत्यमरः । लब्ध गृहीतः । तततः अद्य एनमभिमुदकुम्मैर्निर्वापयत
शमयत, महानसेषु पाकगृहेषु । "समानौ रसवत्यां तु पाकस्थानं महानसम्"
इत्यमरः । आपूपिकानां भक्ष्यकारिणां । "आपूपिक: कान्दविको भक्ष्यकार इमे
त्रिषु'' इत्यमरः। वशे कामे विषये । "वश 'कान्तो, " इति धातोः पचादित्वादच-
प्रत्ययः । एनमग्निं, निक्षिपत निवेशयत । मैत्रं मैवं एवं न कार्यमित्यर्थः । उचितैः
प्रज्वलनानुकूलैः, मुखमारुतैरेनमग्निमुबोधयत प्रज्वलयत, अमरावतीमधैव दग्धुमेन-
मग्नि, हस्ते कुरुत । रे रे बालिशा: मूर्खा: । "हीनसम्बोधने तु रे" इत्यमरः ।
"अज्ञे मूढयथाजातमूखवैधेयवालिशा : " इति च । अयमेष बाडव: ब्राह्मणः,
बडबासम्बन्धी च। "द्विजात्यग्रजन्मभूदेवबाडचा:" इत्यमरः । शिखां चूडां
अर्चिश्व, प्रदर्शयति, परित्यजत विसर्जयत इति, परिहसन्तः श्लेषभङ्गया परिहासं
कुर्वन्तः, परिक्षिपन्तः आस्कन्दयन्तः, तर्जयन्तः भर्त्सयन्तः, ताडयन्तः प्रहरन्तश्चा-
सुरभटाः, एनमनिं, पलाययामासुः प्रधावयामासु रित्यर्थः । परेत्युपसर्गात्परस्य गत्यर्था-
यघातोर्हेतुमण्णिजन्तस्य यो रेफः तस्य "उपसर्गस्यायतौ" (पा.सू. 8-2-19 ) इति
।
"
-
1. "वश = कान्तौ" ( कान्तिरिच्छा) - अयं धातुः आदादिकः । "अथ त्रयः
परस्मैपदिन: – इत्यारभ्य पठितेषु त्रिषु अन्तिमः ॥
1
2. " अय वय पय मयचयतयणय गतौ" – इत्ययं धातुः भौवादिकः । "अथ
रेवत्यन्ता अनुदात्तेतः" – इत्यारभ्य पठितेषु सप्तत्रिंशद्धातुषु प्रथमः ॥ "हेतुमति च"
(पा.सू. 3-1-26) इत्यनेन प्रयोजककर्तरि णिच् ॥