2023-08-06 09:11:25 by Bharadwajraki
This page has been fully proofread twice.
कालदण्डहतस्यास्य कण्ठे प्राणा aजुघूर्णिरे ।
अन्तकं यद्धतं नेतुमन्तकोऽन्यो न विद्यते ॥ ३५ ॥
पार्श्वतस्तस्य परे केचिदतिचिरोपरोधसंवर्धितप्रतिघानलव्यतिकरविशेषभीषणज्वालाकलापदुरापमपि परिवृत्य जातवेदसं, प्रशमय्य [^१]परुषहुङ्कारभयङ्करैर्मुखमारुतैरस्य दुस्सहं ज्योतिः, अपकृष्यास्य वाहनं
मेषमग्रचरणग्राहं, [^२]आहृत्य शक्तिमपि बलादस्य हस्ततलात्, "अरे रे लब्धोऽयमन्नहरः क्रतुभुजां हव्यवाहो नाम निर्जरापशदः, तदद्य
[commentary]
व्याळः कुम्भीनसः" इत्यमरः । तदवलोकनाज्जनितेन साध्वसेन ध्वस्ताः नष्टाः चेतनाः प्राणिनो यस्य सः । "प्राणी तु चेतनो जन्मी" इत्यमरः । सेनामुखे निविष्टम् अन्तकं यमं । "वैवस्वतोऽन्तकः" इत्यमरः । तदीयममोघं कालदण्डमपहृत्य कराद्धृत्वा, तेन दण्डेनैव, तमभिहत्य, आदिमं प्राथमिकं जयं, आपेदिरे प्रापुः । आङ्पूर्वात्पदेः कर्तरि लिट् । इन्द्रनिग्रहकारिमुनौ पाशुपते स्वानुग्राहके सति दानवाः कथं जयं न प्राप्नुयुरिति भावः । तत्र मृत्युरपि मरणवेदनामापेत्याह -- कालेति ॥ यद्यतः, हतं ताडितं, अन्तकम्, नेतुं मृतानां स्थानं प्रापयितुं, अन्यः स्वव्यतिरिक्तोऽन्तकः न विद्यते, ततः कालदण्डहतस्य अस्यान्तकस्य, कण्ठे प्राणा जुघूर्णिरे बभ्रुमुरित्यर्थः । घूर्ण भ्रमणे, अस्मात्परोक्षे कर्तरि लिट् । स्वस्य प्राणे स्वेनैव हृते आत्महत्या स्यादिति भयात्स्व स्वप्राणहर्तुरन्तकान्तरस्याभावादन्तकोऽपि सङ्कटमापेति भावः । अग्निरप्यतीव पीडामापेत्याह -- पार्श्वेति ॥ तस्य सेनामुखस्य, पार्श्वतः पार्श्वे । सार्वविभक्तिकस्तसिः । परे यमपीडाकरेभ्यः अन्ये, केचिदसुरभटाः, अतिचिरं उपरोधः तारकादिप्राचीनासुरकृतः महानसे निरोधः । अयमर्थश्शङ्करसंहितायां प्रसिद्धः । तेन संवर्धितः, वृद्धिं प्रापितः, प्रतिघ एव रोष एव अनलः । "प्रतिघारुट्क्रुधौ स्त्रियाम्" इत्यमरः । तस्य व्यतिकरेण सम्बन्धेन, विशेषभीषणो यो ज्वालाकलापस्सङ्घः, तेन दुरापं दुर्ग्रहमपि, जातवेदसं, परिवृत्य आवृत्य, अस्य अग्नेः,
[^१] "परुष'' - मूलपाठः, "रोष" -- इति व्याख्यापाठः ।
[^२] "आहृत्य" मूलपाठः, "अपहृत्य" -- व्याख्यापाठः ।
a. "घुण घूर्ण = भ्रमणे" -- अयं धातुः भौवादिकः । "अथानुनासिकान्ताः" इत्यारभ्य पठितेषु कम्यन्तेषु अनुदात्तेत्सु पंचमः ॥ तौदादिकोऽप्यन्यः, "अथ परस्मैपदिनः" -- इत्यारभ्य पठितेषु अष्टोत्तरशतसंख्याकेषु धातुषु अष्टचत्वारिंशः ॥
अन्तकं यद्धतं नेतुमन्तकोऽन्यो न विद्यते ॥ ३५ ॥
पार्श्वतस्तस्य परे केचिदतिचिरोपरोधसंवर्धितप्रतिघानलव्यतिकरविशेषभीषणज्वालाकलापदुरापमपि परिवृत्य जातवेदसं, प्रशमय्य [^१]परुषहुङ्कारभयङ्करैर्मुखमारुतैरस्य दुस्सहं ज्योतिः, अपकृष्यास्य वाहनं
[commentary]
व्याळः कुम्भीनसः" इत्यमरः । तदवलोकनाज्जनितेन साध्वसेन ध्वस्ताः नष्टाः चेतनाः प्राणिनो यस्य सः । "प्राणी तु चेतनो जन्मी" इत्यमरः । सेनामुखे निविष्टम् अन्तकं यमं । "वैवस्वतोऽन्तकः" इत्यमरः । तदीयममोघं कालदण्डमपहृत्य कराद्धृत्वा, तेन दण्डेनैव, तमभिहत्य, आदिमं प्राथमिकं जयं, आपेदिरे प्रापुः । आङ्पूर्वात्पदेः कर्तरि लिट् । इन्द्रनिग्रहकारिमुनौ पाशुपते स्वानुग्राहके सति दानवाः कथं जयं न प्राप्नुयुरिति भावः । तत्र मृत्युरपि मरणवेदनामापेत्याह -- कालेति ॥ यद्यतः, हतं ताडितं, अन्तकम्, नेतुं मृतानां स्थानं प्रापयितुं, अन्यः स्वव्यतिरिक्तोऽन्तकः न विद्यते, ततः कालदण्डहतस्य अस्यान्तकस्य, कण्ठे प्राणा जुघूर्णिरे बभ्रुमुरित्यर्थः । घूर्ण भ्रमणे, अस्मात्परोक्षे कर्तरि लिट् । स्वस्य प्राणे स्वेनैव हृते आत्महत्या स्यादिति भयात्