2023-07-16 06:49:26 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  कालदण्डहतस्यास्य कण्ठे प्राणा 'aजुघूर्णिरे ।
  
  
  
  
  
  
  
  अन्तकं यद्धतं नेतुमन्तकोऽन्यो न विद्यते ॥ ३५ ॥
  
  
  
  
  
  
  
   
  
  
  
  पार्श्वतस्तस्य परे केचिदतिचिरोपरोधसंवर्धितप्रतिघानलव्यति-
  
  
  
  करविशेषभीषणज्वालाकलापदुरापमपि परिवृत्य जातवेदसं, प्रशमय्य
  
  
  
  ' [^१]परुषहुङ्कारभयङ्करैर्मुख मारुतैरस्य दुस्सहं ज्योतिः, अपकृष्यास्य वाहनं
  
  
  
  
  
  
  
  मेषमग्रचरणग्राहं, 2 [^२]आहृत्य शक्तिमपि बलादस्य हस्ततलात्, "अरे रे
  
  
  
   लब्धोऽयमन्नहरः क्रतुभुजां हव्यवाहो नाम निर्जरा पशदः, तदद्य
  
  
  
   
  
  
  
  ,
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  व्याळ :ळः कुम्भीनस : सः" इत्यमरः । तदवलोकनाज्जनितेन साध्वसेन ध्वस्ताः नष्टाः
  
  
  
   चेतना:नाः प्राणिनो यस्य सः । "प्राणी तु चेतनो जन्मी" इत्यमरः । सेनामुखे निविष्टम्
  
  
  
   अन्तकं यमं । "वैवस्वतोऽन्तकः" इत्यमरः । तदीयममोघं कालदण्डमपहृत्य
  
  
  
   कराद्धृत्वा, तेन दण्डेनैव, तमभिहत्य, आदिमं प्राथमिकं जयं, आपेदिरे प्रापुः ।
  
  
  
   आड्र्यूङ्पूर्वात्पदेः कर्तरि लिट् । इन्द्रनिग्रहकारिमुनौ पाशुपते स्वानुग्राहके सति दानवाः
  
  
  
   कथं जयं न प्राप्नुयुरिति भावः । तत्र मृत्युरपि मरणवेदनामापेत्याह –-- कालेति ॥
  
  
  
   यद्यतः, हतं ताडितं, अन्तकम्, नेतुं मृतानां स्थानं प्रापयितुं, अन्यः स्वव्यतिरिक्तो-
  
  
  
  ऽन्तकः न विद्यते, ततः कालदण्डहतस्य अस्यान्तकस्य, कण्ठे प्राणा जुघूर्णिरे
  
  
  
   बभ्रुमुरित्यर्थः । घूर्ण भ्रमणे, अस्मात्परोक्षे कर्तरि लिट् । स्वस्य प्राणे स्वेनैव हृते
  
  
  
   आत्महत्या स्यादिति भयात् स्वस्व प्राणहर्तुरन्तकान्तरस्याभावादन्तकोऽपि सङ्कटमा पेति
  
  
  
   भाव:वः । अग्निरप्यतीव पीडामापेत्याह – प-- पार्श्चिंवेति ॥ तस्य सेनामुखस्य, पार्श्वतः
  
  
  
   पार्श्वे । सार्वविभक्तिकस्तसिः । परे यमपीडाकरेभ्यः अन्ये, केचिदसुरभटाः,
  
  
  
  ।
  
  
  
  अति-
  
  
  
   अतिचिरं उपरोध:धः तारकादिप्राचीनासुरकृत:तः महानसे निरोध:धः । अयमर्थश्शङ्करसंहितायां
  
  
  
   प्रसिद्धः । तेन संवर्धितः, वृद्धिधिं प्रापितः, प्रतिघ एव रोष एव अनल:लः । "प्रतिघा-
  
  
  
  रुटुट्क्रुधौ स्त्रियाम्" इत्यमरः । तस्य व्यतिकरेण सम्बन्धेन, विशेषभीषणो यो ज्वाला-
  
  
  
  कलापस्सङ्घः, तेन दुरापं दुर्ग्रहमपि, जातवेदसं, परिवृत्य आवृत्य, अस्य अग्ने: ,
  
  
  
   
  
  
  
  61
  
  
  
   
  
  
  
  1.नेः,
  
  
  
   
  
  
  
  [^१] "परुष'' - मूलपाठः, "रोष" -- इति व्याख्यापाठः ।
  
  
  
  
  
  
  
   
  
  
  
  [^२] "आहृत्य " मूलपाठः, "अपहृत्य" -- व्याख्यापाठः ।
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a.
  
  
  
   
  
  
  
   "घुण घूर्ण = भ्रमणे" -- अयं धातुः भौवादिक:कः । "अथानुनासिकान्ताः" इत्या-
  
  
  
  रभ्य पठितेषु कम्यन्तेषु अनुदात्तेत्सु पंचमः ॥ तौदादिकोऽप्यन्यः, "अथ परस्मैप दिन:"नः" -
  
  
  
  - इत्यारभ्य पठितेषु अष्टोत्तरशतसंख्याकेषु धातुषु अष्टचत्वारिंशः ॥