This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
कालदण्डहतस्यास्य कण्ठे प्राणा 'जुघूर्णिरे ।
अन्तकं यद्धतं नेतुमन्तकोऽन्यो न विद्यते ॥ ३५ ॥
पार्श्वतस्तस्य परे केचिदतिचिरोपरोधसंवर्धितप्रतिघानलव्यति-
करविशेषभीषणज्वालाकलापदुरापमपि परिवृत्य जातवेदसं, प्रशमय्य
'परुषहुङ्कारभयङ्करैर्मुख मारुतैरस्य दुस्सहं ज्योतिः, अपकृष्यास्य वाहनं
मेषमग्रचरणग्राहं, 2 आहृत्य शक्तिमपि बलादस्य हस्ततलात्, "अरे रे
लब्धोऽयमन्नहरः क्रतुभुजां हव्यवाहो नाम निर्जरा पशदः, तदद्य
 
,
 
व्याळ : कुम्भीनस : " इत्यमरः । तदवलोकनाजनितेन साध्वसेन ध्वस्ताः नष्टाः
चेतना: प्राणिनो यस्य सः । "प्राणी तु चेतनो जन्मी" इत्यमरः । सेनामुखे निविष्टम्
अन्तकं यमं । "वैवस्वतोऽन्तकः" इत्यमरः । तदीयममोघं कालदण्डमपहृत्य
कराद्धृत्वा, तेन दण्डेनैव, तमभिहत्य, आदिमं प्राथमिकं जयं, आपेदिरे प्रापुः ।
आड्र्यूर्वात्पदेः कर्तरि लिट्। इन्द्रनिग्रहकारिमुनौ पाशुपते स्वानुग्राहके सति दानवाः
कथं जयं न प्राप्नुयुरिति भावः । तत्र मृत्युरपि मरणवेदनामापेत्याह – कालेति ॥
यद्यतः, हतं ताडितं, अन्तकम्, नेतुं मृतानां स्थानं प्रापयितुं, अन्यः स्वव्यतिरिक्तो-
ऽन्तकः न विद्यते, ततः कालदण्डहतस्य अस्यान्तकस्य, कण्ठे प्राणा जुघूर्णिरे
बभ्रुमुरित्यर्थः । घूर्ण भ्रमणे, अस्मात्परोक्षे कर्तरि लिट् । स्वस्य प्राणे स्वेनैव हृते
आत्महत्या स्यादिति भयात् स्वप्राणहर्तुरन्तकान्तरस्याभावादन्तकोऽपि सङ्कटमा पेति
भाव: । अग्निरप्यतीव पीडामापेत्याह – पश्चिंति ॥ तस्य सेनामुखस्य, पार्श्वतः
पार्श्वे । सार्वविभक्तिकस्तसिः । परे यमपीडाकरेभ्यः अन्ये, केचिदसुरभटाः,

अति-
चिरं उपरोध: तारकादिप्राचीनासुरकृत: महानसे निरोध: । अयमर्थश्शङ्करसंहितायां
प्रसिद्धः । तेन संवर्धितः, वृद्धि प्रापितः, प्रतिघ एव रोष एव अनल: । "प्रतिघा-
रुटुक्रुधौ स्त्रियाम्" इत्यमरः। तस्य व्यतिकरेण सम्बन्धेन, विशेषभीषणो यो ज्वाला-
कलापस्सङ्घः, तेन दुरापं दुर्ग्रहमपि, जातवेदसं, परिवृत्य आवृत्य, अस्य अग्ने: ,
 
61
 
1. "परुष'' - मूलपाठः, "रोष" - इति व्याख्यापाठः ।
"आहृत्य " मूलपाठः, "अपहृत्य" - व्याख्यापाठः ।
 
2.
 
a.
 
"घुण घूर्ण= भ्रमणे" - अयं धातुः भौवादिक: । "अथानुनासिकान्ताः" इत्या-
रभ्य पठितेषु कम्यन्तेषु अनुदात्तेत्सु पंचमः ॥ तौदादिकोऽप्यन्यः, "अथ परस्मैप दिन:"-
इत्यारभ्य पठितेषु अष्टोत्तरशतसंख्याकेषु धातुषु अष्टचत्वारिंशः ॥