This page has been fully proofread twice.

अनुज्ञाप्य परस्परं, आपूरयन्तो दिङ्मुखानि गुणध्वनिभिः, अवभ्रंशयन्तो गगनतलादुडून्यप्यट्टहासैः, विसंज्ञयन्तः खड्गविच्छुaरणेन वीक्षितुमागतानि सिद्धचारणमण्डलानि, विस्मापयन्तः समरसंरम्भेणैव कर्मन्दिनमपि कलहानन्दिनम्, उत्सारयन्तः पादातमूरुवेगेन, परिचूर्णयन्तो
रथान् परिघाभिघातैः, विद्रावयन्तो हयान् करताळिकाभिः, विघूर्णयन्तो मतङ्गजानङ्गुळीयन्त्रणेन, संवर्तमारुतावर्तितसागर[^१]गर्तदुर्दर्शवक्त्रविवरोल्लसल्लेलिहाननिजरसनावलोकनजनितसाध्वस-ध्वस्तचेतनमासाद्य सेनामुखे निविष्टमन्तकम्, अपहृत्य तदीयमेव कालदण्डममोघम्, अभिहत्य तेनैव तं, आदिमं जयमापेदिरे ।
 
[commentary]
 
संशप्तकाः युद्धादनिवर्तिन इत्यर्थ:थः । "संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः" इत्यमरः । व्रतं नियमम् आलम्ब्य । परस्परमनुज्ञाप्य । दिशां मुखानि, गुणस्य मौर्व्याः, ध्वनिभिः । "मौर्वीज्याशिञ्जिनीगुणाः" इत्यमरः । आपूरयन्तः । गगनतलादुडून्यपि तारका अपि । "तारकाप्युडु वा स्त्रियाम्" इत्यमरः । अट्टहासैः, अवभ्रंशयन्तः पातयन्तः। वीक्षितुमागतानि, सिद्धानां चारणानां देवयोनिविशेषाणां, मण्डलानि, खड्गानां कम्पनेन, विसंज्ञयन्तः मूर्च्छां प्रापयन्तः । समरस्य संरम्भेण
उद्योगेनैव, कलहेन रणेन । "रणाः कलहनिग्रहौ" इत्यमरः । आनन्दितुं शीलं यस्य स तथाविधं, कर्मन्दिनं भिक्षुं, नारदमिति यावत् । "भिक्षुः परिव्राट् कर्मन्दी" इत्यमरः । विस्मापयन्तः आश्चर्यं प्रापयन्तः । ऊरुवेगेन, पादातं पत्तिसमूहं । "पादातं पत्तिसंहतिः" इत्यमरः । उत्सारयन्तः निस्सारयन्तः । परिघानामायुधविशेषाणां, आघातैस्ताडनैः । "परिघः परिघातनः" इत्यमरः । रथान् परिचूर्णयन्तः शकलयन्तः । चूर्णशब्दात्तत्करोतीति णिजन्ताल्लटश्शत्रादेशः । कराणां ताळिकाभिः ताडनैः, हयान् विद्रा[^२]वयन्तः निष्कासयन्तः । अङ्गुळीभिः यन्त्रणेन पीडनेन ग्रहणेन वा । अथवा अंगुळीनां यन्त्रणेन स्फोटेन, मतङ्गजान्विघूर्णयन्तः भ्रामयन्तः । संवर्ते प्रळये यो मारुतः, तेनावर्तितः भ्रमितः, यस्सागरे आवर्तः तद्वद्दुर्दर्शे वक्त्रविवरे वदनबिले, उल्लसन्ती, लेलिहाना सृक्कलेहनं कुर्वाणा, या निजरसना । यद्वा लेलिहानस्सर्पः तत्सदृशी रसना जिह्वा । "लेलिहानो द्विरसनो
 
a. "कम्पनेन" -- इति व्याख्यापाठः ।
 
[^१] "गर्त" मूलपाठः, "आवर्त" -- व्याख्यापाठः ।
 
[^२] हेतुमण्णिजन्तात् शतरि बहुवचनम् ।