2023-07-16 06:35:16 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  अनुज्ञाप्य परस्परं, आपूरयन्तो दिङ्मुखानि गुणध्वनिभिः, अवभ्रंशयन्तो
  
  
  
   गगनतलादुडून्यप्यट्टहासैः, विसंज्ञयन्तः खड्गविच्छु aरणेन वीक्षितु -
  
  
  
  मागतानि सिद्धचारणमण्डलानि, विस्मापयन्तः समरसंरम्भेणैव कर्म-
  
  
  
  न्दिनमपि कलहानन्दिनम्, उत्सारयन्तः पादातमूरुवेगेन, परिचूर्णयन्तो
  
  
  
  
  
  
  
  रथान् परिघाभिघातैः, विद्रावयन्तो हयान् करताळिकाभिः, विधूघूर्णयन्तो
  
  
  
   मतङ्गजानङ्गुळीयन्त्रणेन, संवर्तमारुतावर्तितसागर [^१]गर्तदुर्दर्शवक्त्रविव-
  
  
  
  रोल्लसल्ल लेलिहाननिजरसनावलोकनजनितसा ध्वस-ध्वस्तचेतन मासाद्य सेना-
  
  
  
  मुखे निविष्टमन्तकम्, अपहृत्य तदीयमेव कालदण्डममोघम्, अभिहत्य
  
  
  
   तेनैव तं, आदिमं जयमापेदिरे ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  संशप्तका:काः युद्धादनिवर्तिन इत्यर्थ: । "संशप्तकास्तु समयात्सङ्ग्रामाद निवर्तिनः "
  
  
  
  " इत्यमरः । व्रतं नियमम् आलम्ब्य । परस्परमनुज्ञाप्य । दिशां मुखानि, गुणस्य मौर्व्याः,
  
  
  
   ध्वनिभिः । "मौर्वीज्याशिञ्जिनीगुणा: णाः" इत्यमरः । आपूरयन्तः । गगनतला-
  
  
  
  दुडून्यपि तारका अपि । "तारकाप्युडु वा स्त्रियाम्" इत्यमरः । अट्टहासैः,
  
  
  
   अत्रवभ्रंशयन्तः पातयन्तः। वीक्षितुमागतानि, सिद्धानां चारणानां देवयोनिविशेषाणां,
  
  
  
   मण्डलानि, खड्गानां कम्पनेन, विसंज्ञयन्तः मूर्च्छाछां प्रापयन्तः । समरस्य संरम्मेभेण
  
  
  
  
  
  
  
  उद्योगेनैव, कलहेन रणेन । "रणा:णाः कलहनिग्रहौ" इत्यमरः । आनन्दितुं शीलं
  
  
  
   यस्य स तथाविधं, कर्मन्दिननं भिक्षुषुं, नारदमिति यावत् । "भिक्षुः परिव्राट्
  
  
  
   कर्मन्दी" इत्यमरः । विस्मापयन्तः आश्चर्ययं प्रापयन्तः । ऊरुवेगेन, पादातं
  
  
  
   पत्तिसमूहं । "पादातं पत्तिसंहतिः" इत्यमरः । उत्सारयन्तः निस्सारयन्तः ।
  
  
  
   परिघानामायुधविशेषाणां, आघातैस्ताडनैः । "परिष:घः परिघातनः" इत्यमरः ।
  
  
  
   रथान् परिचूर्णयन्तः शकलयन्तः । चूर्णशब्दात्तत्करोतीति णिजन्ताल्लटश्शत्रादेशः ।
  
  
  
   कराणां ताळिकाभिः ताडनै:नैः, हयान् विद्रा[^२]वयन्तः निष्कासयन्तः । अङ्गगुळीभिः
  
  
  
   यन्त्रणेन पीडनेन ग्रहणेन वा । अथवा अंगुळीनां यन्त्रणेन स्फोटेन, मतङ्गजान्
  
  
  
  विघूर्णयन्तः भ्रामयन्तः । संवर्ते प्रळये यो मारुतः, तेनावर्तितः भ्रमितः, यस्सागरे
  
  
  
   आवर्तः तद्वद्दुर्दर्शशे वक्त्रविवरे बवदनचिबिले, उल्लसन्ती, लेलिहाना सुसृक्कलेहनं कुर्वाणा,
  
  
  
   या निजरसना । यद्वा लेलिहानस्सर्पः तत्सदृशी रसना जिह्वा । "लेलिहानो द्विरसनो
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a.
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  2
  
  
  
   
  
  
  
   "कम्पनेन" –-- इति व्याख्यापाठः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [^१] "गर्त" मूलपाठः, "आवर्त" –-- व्याख्यापाठः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [^२] हेतु मण्णि जन्तात् शतरि बहुवचनम् ।