2023-06-05 16:39:47 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
अनुज्ञाप्य परस्परं, आपूरयन्तो दिङ्मुखानि गुणध्वनिभिः, अवभ्रंशयन्तो
गगनतलादुडून्यप्यट्टहासैः, विसंज्ञयन्तः खड्गविच्छु रणेन वीक्षितु -
मागतानि सिद्धचारणमण्डलानि, विस्मापयन्तः समरसंरम्भेणैव कर्म-
न्दिनमपि कलहानन्दिनम्, उत्सारयन्तः पादातमूरुवेगेन, परिचूर्णयन्तो
रथान् परिघाभिघातैः, विद्रावयन्तो हयान् करताळिकाभिः, विधूर्णयन्तो
मतङ्गजानङ्गुळीयन्त्रणेन, संवर्तमारुतावर्तितसागर गर्तदुर्दर्शवक्त्रविव-
रोल्लसल्ल लिहाननिजरसनावलोकनजनितसा ध्वसध्वस्तचेतन मासाद्य सेना-
मुखे निविष्टमन्तकम्, अपहृत्य तदीयमेव कालदण्डममोघम्, अभिहत्य
तेनैव तं, आदिमं जयमापेदिरे ।
संशप्तका: युद्धादनिवर्तिन इत्यर्थ: । "संशप्तकास्तु समयात्सङ्ग्रामाद निवर्तिनः "
इत्यमरः । व्रतं नियमम् आलम्ब्य । परस्परमनुज्ञाप्य । दिशां मुखानि, गुणस्य मौर्व्याः,
ध्वनिभिः । "मौर्वीज्याशिञ्जिनीगुणा: " इत्यमरः । आपूरयन्तः । गगनतला-
दुडून्यपि तारका अपि । "तारकाप्युडु वा स्त्रियाम्" इत्यमरः । अट्टहासैः,
अत्रभ्रंशयन्तः पातयन्तः। वीक्षितुमागतानि, सिद्धानां चारणानां देवयोनिविशेषाणां,
मण्डलानि, खड्गानां कम्पनेन, विसंज्ञयन्तः मूर्च्छा प्रापयन्तः । समरस्य संरम्मेण
उद्योगेनैव, कलहेन रणेन । "रणा: कलहनिग्रहौ" इत्यमरः । आनन्दितुं शीलं
यस्य स तथाविधं, कर्मन्दिन भिक्षु, नारदमिति यावत् । "भिक्षुः परिव्राट्
कर्मन्दी" इत्यमरः । विस्मापयन्तः आश्चर्य प्रापयन्तः । ऊरुवेगेन, पादातं
पत्तिसमूहं । "पादातं पत्तिसंहतिः" इत्यमरः । उत्सारयन्तः निस्सारयन्तः ।
परिघानामायुधविशेषाणां, आघातैस्ताडनैः । "परिष: परिघातनः" इत्यमरः ।
रथान् परिचूर्णयन्तः शकलयन्तः । चूर्णशब्दात्तत्करोतीति णिजन्ताल्लटश्शत्रादेशः ।
कराणां ताळिकाभिः ताडनै:, हयान् विद्रावयन्तः निष्कासयन्तः । अङ्गळीभिः
यन्त्रणेन पीडनेन ग्रहणेन वा । अथवा अंगुळीनां यन्त्रणेन स्फोटेन, मतङ्गजान्
विघूर्णयन्तः भ्रामयन्तः । संवर्ते प्रळये यो मारुतः, तेनावर्तितः भ्रमितः, यस्सागरे
आवर्तः तद्वद्दुर्दर्श वक्त्रविवरे बदनचिले, उल्लसन्ती, लेलिहाना सुक्कलेहनं कुर्वाणा,
या निजरसना । यद्वा लेलिहानस्सर्पः तत्सदृशी रसना जिह्वा । "लेलिहानो द्विरसनो
a.
1.
2
"कम्पनेन" – इति व्याख्यापाठः ।
"गर्त" मूलपाठः, "आवर्त" – व्याख्यापाठः ।
हेतु मण्णि जन्तात् शतरि बहुवचनम् ।