This page has been fully proofread twice.

तत्क्षणं च पुनरनुक्षणोपचीयमानममरबलं, अपक्षीयमाणमात्मबलं च निरीक्षितुमप्यतितिक्षवः, तरक्षव इव बुभुक्षिताः, दन्दशूका[^१] इव दण्डघट्टिताः, बलिबाणशम्बरजम्भनमुचिविरोचनमुखा महासुराः
सरभसमवमुच्य वारवाणं, अवबध्य गोधाङ्गुळित्राणं, अपिनह्य निषङ्गमक्षयशरपूरितोत्सङ्गं, अधिरुह्य शताङ्गमायोजितखरतुरङ्गं, आबध्य निटिलेषु भ्रुकुटीविभङ्गं, आसेव्य वीरपाणं, आलम्ब्य संशप्तकव्रतं,
 
[commentary]
 
फलोन्मुखा । पचतेः [^२]केळिमर्प्रत्ययः, अदन्तलक्षणष्टाप् । भाग्यस्य अनुकूलदैवस्य । "भाग्यं स्त्री नियतिर्विधिः" इत्यमरः । परंपरेव पंक्तिरिव । "रेखाळिरावलिर्वीथीश्रेणिपंक्तिपरम्पराः" इति रभसः । जयदा विजयप्रदा, आसीत् अभवत् । स्वप्रतिपक्षमित्रभेदे स्वानुकूलकाले को वा जयं न प्राप्नुयादिति भावः । जयप्रकारमेव वर्णयति -- तत्क्षणमिति ॥ तत्क्षणं च पुनः अनुक्षणं प्रतिक्षणं । वीप्सायामव्ययीभावः । उपचीयमानं स्वयमेव वृद्धिं प्राप्यमाणं । कर्मकर्तरि शानच् ।
अपक्षीयमाणमात्मबलं च वीक्षितुं, अतितिक्षवः असहमानाः । "तितिक्षुः क्षमिता क्षमी" इत्यमरः । तरक्षव इव बुभुक्षिताः क्षुधिताः क्षुत्पीडिताः । "बुभुक्षितस्स्यात्क्षुधितः" इत्यमरः । रुष्टा इति भावः । बल्यादयो महाराक्षसाः, सरभसं सत्वरं यथा तथा । वारवाणं कञ्चुकं लोहमयं, अवमुच्य धृत्वा । गाधा तिर्यग्जन्तुविशेषः, तच्चर्मनिर्मितं अङ्गुळित्राणं कवचम् । यद्वा गोधासंज्ञकं च तदङ्गुळित्राणञ्चेति कर्मधारयः । "कोटिरस्याटिनी गोधा तलं ज्याघातवारणः" इत्यमरः । अवबध्य । अक्षयैरक्षीणैश्शरैः, पूरितः उत्सङ्गस्समीपप्रदेशो यस्य स तथाविधम् । "अङ्गस्समीप उत्सङ्गः" इत्यमरः । निषङ्गं तूणीरं । "तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः" इत्यमरः । सन्नह्य अवबध्य । आयोजिताः बद्धाः, खराः अश्वतर्यः, तुरगा यस्य स तथाविधं । शताङ्गं रथं । "शताङ्गस्स्यन्दनो रथः" इत्यमरः । अधिरुह्य, निटिलेषु फालेषु, भ्रुकुटीविभङ्गं भ्रूशकलं, "तन्द्री प्रमीला भ्रकुटिः भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्" इत्यमरः । आबध्य सम्बद्धं कृत्वा । वीरपाणं युद्धप्राक्कालिकं मादकद्रव्यसेवनं । "वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे" इत्यमरः । आसेव्य कृत्वा । संशप्तकानामसुरविशेषाणां । यद्वा
 
[^१] अस्य भागस्य व्याख्याग्रन्थः त्रुठितः ।
 
[^२] "केलिमर उपसंख्यानम्" (वा. ३.१.९६) पचेलिमामाषाः, पक्तव्याः, भिदेलिमाः सरलाः -- भेत्तव्याः, इति वार्तिकादिति भावः ॥