2023-07-16 06:22:26 by Bharadwajraki
This page has been fully proofread once and needs a second look.
नीलकण्ठविजये सव्याख्याने
तत्क्षणं च पुनरनुक्षणोपचीयमानममरबलं, अपक्षीयमाणमात्म-
बलं च निरीक्षितुमप्यतितिक्षवः, तरक्षव इव बुभुक्षिताः, दन्दशूका'
[^१] इव दण्डघट्टिताः, बलिबाणशम्बरजम्भनमुचिविरोचनमुखा महासुराः
सरभसमवमुच्य वारवाणं, अवबध्य गोधाङ्गुळित्राणं, अपिनद्ह्य निषङ्ग-
मक्षयशरपूरितोत्सङ्गं, अधिरुह्य शताङ्गमायोजितखरतुरङ्गं, आबध्य
निटिलेषु भ्रुकुटीविभङ्गगं, आसेव्य वीरपाणं, आलम्ब्य संशप्तकव्रतं,
[commentary]
फलोन्मुखा । पचते: ±तेः [^२]केळिमर्पप्रत्ययः, अदन्तलक्षणष्टाप् । भाग्यस्य अनुकूलदैवस्य ।
"भाम्ग्यं स्त्री नियतिर्विधि: धिः" इत्यमरः । परंपरेव पंक्तिरिव । "रेखाळिरावलिवर्वीथी-
श्रेणिपंक्तिपरम्पराः" इति रभसः । जयदा विजयप्रदा, आसीत् अभवत् । स्व-
प्रतिपक्षमित्रभेदे स्वानुकूलकाले को वा जयं न प्राप्नुयादिति भावः । जयप्रकार-
मेव वर्णयति -- तत्क्षणमिति ॥ तत्क्षणं च पुनः अनुक्षणं प्रतिक्षणं । वीप्साया-
मव्ययीभावः । उपचीयमानं स्वयमेव वृद्धिधिं प्राप्यमाणं । कर्मकर्तरि शानच् ।
अपक्षीयमाणमात्मबलं च वीक्षितुं, अतितिक्षवः असहमाना:नाः । "तितिक्षुः क्षमिता
क्षमी" इत्यमरः । तरक्षव इव बुभुक्षिताः क्षुधिताः क्षुत्पीडिताः । "बुभुक्षितस्स्यात्
क्षुधित : तः" इत्यमरः । रुष्टा इति भावः । बल्यादयो महाराक्षसाः, सरभसं सत्वरं
यथा तथा । वारवाणं कञ्चुकं लोहमयं, अवमुच्य धृत्वा । गाधा तिर्यग्जन्तु-
विशेष:षः, तच्चर्मनिर्मितं अङ्गुळित्राणं कवचम् । यद्वा गोधासंज्ञकं च तदङ्गुळि -
त्राणञ्चेति कर्मधारयः । "कोटिरस्याटिनी गोधा तलं ज्याघातवारण: णः" इत्यमरः ।
अवबध्य । अक्षयैरक्षीणैश्शरैः, पूरित:तः उत्सङ्ग स्समीपप्रदेशो यस्य स तथाविधम् ।
"अङ्गस्समीप उत्सङ्गः" इत्यमरः । निषङ्गं तूणीरं । "तूणोपासङ्गतूणीरनिषङ्गा
इषुधिर्द्वयोः" इत्यमरः । सन्नह्य अवबध्य । आयोजिताः बद्धाः, खराः अश्वतर्यः,
तुरगा यस्य स तथाविधं । शताङ्गं रथं । "शताङ्गस्स्यन्दनो रथ: थः" इत्यमरः ।
अधिरुह्य, निटिलेषु फालेषु, श्भ्रुकुटीविभङ्गं अभ्रूशकलं, "तन्द्री प्रमीला भ्रकुटि:
अटिः भ्रुकुटिर्भृभ्रूकुटि:टिः स्त्रियाम्" इत्यमरः । आबध्य सम्बद्धं कृत्वा । वीरपाणं
युद्धप्राक्कालिकं मादकद्रव्यसेवनं । "वीरपाणं तु यत्पानं वृत्ते भाविनि
बा वा रणे" इत्यमरः । आसेव्य कृत्वा । संशप्तकानामसुर विशेषाणां । यद्वा
61
५८
1.
[^१] अस्य भागस्य व्याख्याग्रन्थः त्रुठितः ।
2.
[^२] "केलिमर उपसंख्यानम्" (वा. 3-1-96३.१.९६) पचेलिमामाषा:, पतब्या:षाः, पक्तव्याः, भिदेलिमाः सरलाः -
लिमा: सरलाः - भेत्तव्याः, इति वार्तिकादिति भावः ॥